अथर्ववेद - काण्ड 7/ सूक्त 81/ मन्त्र 3
सूक्त - अथर्वा
देवता - सावित्री, सूर्यः, चन्द्रमाः
छन्दः - अनुष्टुप्
सूक्तम् - सूर्य-चन्द्र सूक्त
सोम॑स्यांशो युधां प॒तेऽनू॑नो॒ नाम॒ वा अ॑सि। अनू॑नं दर्श मा कृधि प्र॒जया॑ च॒ धने॑न च ॥
स्वर सहित पद पाठसोम॑स्य । अं॒शो॒ इति॑ । यु॒धा॒म् । प॒ते॒ । अनू॑न: । नाम॑ । वै । अ॒सि॒ । अनू॑नम् । द॒र्श॒ । मा॒ । कृ॒धि॒ । प्र॒ऽजया॑ । च॒ । धने॑न । च॒ ॥८६.३॥
स्वर रहित मन्त्र
सोमस्यांशो युधां पतेऽनूनो नाम वा असि। अनूनं दर्श मा कृधि प्रजया च धनेन च ॥
स्वर रहित पद पाठसोमस्य । अंशो इति । युधाम् । पते । अनून: । नाम । वै । असि । अनूनम् । दर्श । मा । कृधि । प्रऽजया । च । धनेन । च ॥८६.३॥
अथर्ववेद - काण्ड » 7; सूक्त » 81; मन्त्र » 3
सूचना -
कृपया अस्य मन्त्रस्यार्थम् आर्य(हिन्दी)भाष्ये पश्यत।
टिप्पणीः - ३−(सोमस्य) अमृतस्य। जीवनसाधनस्य (अंशो) अंशुः शमष्टमात्रो भवत्यननाय शं भवतीति वा-निरु० २।५। मृगय्वादयश्च। उ० १।३७। अंश विभाजने-कु। अंशुः=सोमो विभागो विभक्ता वा। हे विभाजयितः (युधाम्) युद्धानां पार्थिवजलस्याकर्षणानाम्, यद्वा ग्रहतारागणानामुल्लेखादियुद्धानाम्, सूर्यसिद्धान्ते-अ० ७। श्लोक १८-२३ (पते) स्वामिन् (अनूनः) ऊन परिहाणे-क। न्यूनतारहितः। सम्पूर्णकलः (नाम) प्रसिद्धौ (वै) निश्चयेन (असि) (अनूनम्) सम्पूर्णं समृद्धम् (दर्श) दृश−घञ्। हे दर्शनीय। पूर्णचन्द्र (मा) माम् (कृधि) कुरु (प्रजया) सन्ततिभृत्यादिना (च च) समुच्चये (धनेन) ॥
इस भाष्य को एडिट करें