Loading...
अथर्ववेद > काण्ड 7 > सूक्त 81

काण्ड के आधार पर मन्त्र चुनें

  • अथर्ववेद का मुख्य पृष्ठ
  • अथर्ववेद - काण्ड 7/ सूक्त 81/ मन्त्र 5
    सूक्त - अथर्वा देवता - सावित्री, सूर्यः, चन्द्रमाः छन्दः - सम्राडास्तारपङ्क्ति सूक्तम् - सूर्य-चन्द्र सूक्त

    यो॑३ऽस्मान्द्वेष्टि॒ यं व॒यं द्वि॒ष्मस्तस्य॒ त्वं प्रा॒णेना प्या॑यस्व। आ व॒यं प्या॑सिषीमहि॒ गोभि॒रश्वैः॑ प्र॒जया॑ प॒शुभि॑र्गृ॒हैर्धने॑न ॥

    स्वर सहित पद पाठ

    य: । अ॒स्मान् । द्वेष्टि॑ । यम् । व॒यम् । द्वि॒ष्म: । तस्य॑ । त्वम् । प्रा॒णेन॑ । आ । प्या॒य॒स्व॒ । आ । व॒यम् । प्या॒शि॒षी॒म॒हि॒ । गोभि॑: । अश्वै॑: । प्र॒ऽजया॑ । प॒शुऽभि॑: । गृ॒है: । धने॑न ॥८६.५॥


    स्वर रहित मन्त्र

    यो३ऽस्मान्द्वेष्टि यं वयं द्विष्मस्तस्य त्वं प्राणेना प्यायस्व। आ वयं प्यासिषीमहि गोभिरश्वैः प्रजया पशुभिर्गृहैर्धनेन ॥

    स्वर रहित पद पाठ

    य: । अस्मान् । द्वेष्टि । यम् । वयम् । द्विष्म: । तस्य । त्वम् । प्राणेन । आ । प्यायस्व । आ । वयम् । प्याशिषीमहि । गोभि: । अश्वै: । प्रऽजया । पशुऽभि: । गृहै: । धनेन ॥८६.५॥

    अथर्ववेद - काण्ड » 7; सूक्त » 81; मन्त्र » 5

    टिप्पणीः - ५−(यः) शत्रुः (अस्मान्) धार्मिकान् (द्वेष्टि) विरोधयति (यम्) (वयम्) (द्विष्मः) विरोधयामः (तस्य) तम् (त्वम्) हे चन्द्र (प्राणेन) जीवनेन (आ) वियोगे-यथा आपद् शब्दे (आ प्यायस्व) वियोजय (आ) समन्तात् (वयम्) (प्यासिषीमहि) ओप्यायी वृद्धौ, आशिषि लिङि यकारस्थाने सकारश्छान्दसः। प्यायिषीमहि-यथा पं० सेवकलालस्य पुस्तके पाठः। वर्धिषीमहि। अन्यत्पूर्ववत्-म० ४॥

    इस भाष्य को एडिट करें
    Top