Loading...
अथर्ववेद > काण्ड 7 > सूक्त 89

काण्ड के आधार पर मन्त्र चुनें

  • अथर्ववेद का मुख्य पृष्ठ
  • अथर्ववेद - काण्ड 7/ सूक्त 89/ मन्त्र 2
    सूक्त - सिन्धुद्वीपः देवता - अग्निः छन्दः - त्रिपदा निचृत्परोष्णिक् सूक्तम् - दिव्यआपः सूक्त

    सं मा॑ग्ने॒ वर्च॑सा सृज॒ सं प्र॒जया॒ समायु॑षा। वि॒द्युर्मे॑ अ॒स्य दे॒वा इन्द्रो॑ विद्यात्स॒ह ऋषि॑भिः ॥

    स्वर सहित पद पाठ

    सम् । मा॒ । अ॒ग्ने॒ । वर्च॑सा । सृ॒ज॒ । सम् । प्र॒ऽजया॑ । सम् । आयु॑षा । वि॒द्यु: । मे॒ । अ॒स्य । दे॒वा: । इन्द्र॑: । वि॒द्या॒त् । स॒ह । ऋषि॑ऽभि: ॥९४.२॥


    स्वर रहित मन्त्र

    सं माग्ने वर्चसा सृज सं प्रजया समायुषा। विद्युर्मे अस्य देवा इन्द्रो विद्यात्सह ऋषिभिः ॥

    स्वर रहित पद पाठ

    सम् । मा । अग्ने । वर्चसा । सृज । सम् । प्रऽजया । सम् । आयुषा । विद्यु: । मे । अस्य । देवा: । इन्द्र: । विद्यात् । सह । ऋषिऽभि: ॥९४.२॥

    अथर्ववेद - काण्ड » 7; सूक्त » 89; मन्त्र » 2

    टिप्पणीः - २−(सम्) सम्यक् (मा) माम् (अग्ने) विद्वन् (वर्चसा) वेदाध्ययनादितेजसा (सृज) संयोजय (सम्) (प्रजया) (सम्) (आयुषा) जीवनेन (विद्युः) जानीयुः (मे) द्वितीयार्थे षष्ठी। माम् (अस्य) एनम् (देवाः) विद्वांसः (इन्द्रः) ऐश्वर्यवान्। आचार्यः (विद्यात्) जानीयात् (ऋषिभिः) अ० २।६।१। आप्तैः। मुनिभिः ॥

    इस भाष्य को एडिट करें
    Top