Sidebar
अथर्ववेद - काण्ड 7/ सूक्त 9/ मन्त्र 2
सूक्त - उपरिबभ्रवः
देवता - पूषा
छन्दः - त्रिष्टुप्
सूक्तम् - स्वस्तिदा पूषा सूक्त
पू॒षेमा आशा॒ अनु॑ वेद॒ सर्वाः॒ सो अ॒स्माँ अभ॑यतमेन नेषत्। स्व॑स्ति॒दा आघृ॑णिः॒ सर्व॑वी॒रोऽप्र॑युच्छन्पु॒र ए॑तु प्रजा॒नन् ॥
स्वर सहित पद पाठपू॒षा । इ॒मा: । आशा॑: । अनु॑ । वे॒द॒ । सर्वा॑: । स: । अ॒स्मान् । अ॑भयऽतमेन । ने॒ष॒त् । स्व॒स्ति॒ऽदा: । आघृ॑णि: । सर्व॑ऽवीर: । अप्र॑ऽयुच्छन् । पु॒र: । ए॒तु॒ । प्र॒ऽजा॒नन् ॥१०.२॥
स्वर रहित मन्त्र
पूषेमा आशा अनु वेद सर्वाः सो अस्माँ अभयतमेन नेषत्। स्वस्तिदा आघृणिः सर्ववीरोऽप्रयुच्छन्पुर एतु प्रजानन् ॥
स्वर रहित पद पाठपूषा । इमा: । आशा: । अनु । वेद । सर्वा: । स: । अस्मान् । अभयऽतमेन । नेषत् । स्वस्तिऽदा: । आघृणि: । सर्वऽवीर: । अप्रऽयुच्छन् । पुर: । एतु । प्रऽजानन् ॥१०.२॥
अथर्ववेद - काण्ड » 7; सूक्त » 9; मन्त्र » 2
सूचना -
कृपया अस्य मन्त्रस्यार्थम् आर्य(हिन्दी)भाष्ये पश्यत।
टिप्पणीः - २−(पूषा) पोषक ईश्वरः (इमाः) (आशाः) दिशः (अनु) निरन्तरम् (वेद) वेत्ति (सर्वाः) (सः) पूषा (अस्मान्) धार्मिकान् (अभयतमेन) अत्यन्तभयरहितेन पथा (नेषत्) नयतेर्लेट्। नयेत् (स्वस्तिदाः) मङ्गलदाता (आघृणिः) सम्यक् प्रकाशमानः (सर्ववीरः) सर्वेषु वीरः (अप्रयुच्छन्) अप्रमाद्यन् (पुरः) अग्रे (एतु) गच्छतु (प्रजानन्) अतिविद्वान् ॥
इस भाष्य को एडिट करें