Sidebar
अथर्ववेद - काण्ड 7/ सूक्त 92/ मन्त्र 1
सूक्त - अथर्वा
देवता - चन्द्रमाः
छन्दः - त्रिष्टुप्
सूक्तम् - सुत्रामाइन्द्र सूक्त
स सु॒त्रामा॒ स्ववाँ॒ इन्द्रो॑ अ॒स्मदा॒राच्चि॒द्द्वेषः॑ सनु॒तर्यु॑योतु। तस्य॑ व॒यं सु॑म॒तौ य॒ज्ञिय॒स्यापि॑ भ॒द्रे सौ॑मन॒से स्या॑म ॥
स्वर सहित पद पाठस: । सु॒ऽत्रामा॑ । स्वऽवा॑न् । इन्द्र॑: । अ॒स्मत् । आ॒रात् । चि॒त् । द्वेष॑: । स॒नु॒त: । यु॒यो॒तु॒ । तस्य॑ । व॒यम् । सु॒ऽम॒तौ । य॒ज्ञिय॑स्य । अपि॑ । भ॒द्रे । सौ॒म॒न॒से । स्या॒म॒ ॥९७.१॥
स्वर रहित मन्त्र
स सुत्रामा स्ववाँ इन्द्रो अस्मदाराच्चिद्द्वेषः सनुतर्युयोतु। तस्य वयं सुमतौ यज्ञियस्यापि भद्रे सौमनसे स्याम ॥
स्वर रहित पद पाठस: । सुऽत्रामा । स्वऽवान् । इन्द्र: । अस्मत् । आरात् । चित् । द्वेष: । सनुत: । युयोतु । तस्य । वयम् । सुऽमतौ । यज्ञियस्य । अपि । भद्रे । सौमनसे । स्याम ॥९७.१॥
अथर्ववेद - काण्ड » 7; सूक्त » 92; मन्त्र » 1
सूचना -
कृपया अस्य मन्त्रस्यार्थम् आर्य(हिन्दी)भाष्ये पश्यत।
टिप्पणीः - १−(सः) प्रसिद्धः (सुत्रामा) सुरक्षकः (स्ववान्) गतमन्त्रे। महाधनः (इन्द्रः) प्रतापी राजा (अस्मत्) अस्मत्तः (आरात्) दूरे (चित्) एव (द्वेषः) गतमन्त्रे। शत्रून् (सनुतः) स्वरादिनिपातमव्यम्। पा० १।१।३७। अव्ययसंज्ञा। सनुतः-निर्णीतान्तर्हितनाम-निघ० ३।२५। निर्णयपूर्वकम्। निश्चयीकृतम् (युयोतु) यौतेः शपः श्लुः। निवारयतु (तस्य) (वयम्) (सुमतौ) अनुग्रहबुद्धौ (यज्ञियस्य) पूजार्हस्य (अपि) (भद्रे) कल्याणकरे (सौमनसे) सुमनसो भावे। प्रसन्नतायाम् (स्याम) ॥
इस भाष्य को एडिट करें