Sidebar
अथर्ववेद - काण्ड 7/ सूक्त 91/ मन्त्र 1
सूक्त - अथर्वा
देवता - चन्द्रमाः
छन्दः - त्रिष्टुप्
सूक्तम् - सुत्रामाइन्द्र सूक्त
इन्द्रः॑ सु॒त्रामा॒ स्ववाँ॒ अवो॑भिः सुमृडी॒को भ॑वतु वि॒श्ववे॑दाः। बाध॑तां॒ द्वेषो॒ अभ॑यं नः कृणोतु सु॒वीर्य॑स्य॒ पत॑यः स्याम ॥
स्वर सहित पद पाठइन्द्र॑: । सु॒ऽत्रामा॑ । स्वऽवा॑न् । अव॑:ऽभि: । सु॒ऽमृ॒डी॒क: । भ॒व॒तु॒ । वि॒श्वऽवे॑दा: । बाध॑ताम् । द्वेष॑: । अभ॑यम् । न॒: । कृ॒णो॒तु॒ । सु॒ऽवीर्य॑स्य । पत॑य: । स्या॒म॒ ॥९६.१॥
स्वर रहित मन्त्र
इन्द्रः सुत्रामा स्ववाँ अवोभिः सुमृडीको भवतु विश्ववेदाः। बाधतां द्वेषो अभयं नः कृणोतु सुवीर्यस्य पतयः स्याम ॥
स्वर रहित पद पाठइन्द्र: । सुऽत्रामा । स्वऽवान् । अव:ऽभि: । सुऽमृडीक: । भवतु । विश्वऽवेदा: । बाधताम् । द्वेष: । अभयम् । न: । कृणोतु । सुऽवीर्यस्य । पतय: । स्याम ॥९६.१॥
अथर्ववेद - काण्ड » 7; सूक्त » 91; मन्त्र » 1
सूचना -
कृपया अस्य मन्त्रस्यार्थम् आर्य(हिन्दी)भाष्ये पश्यत।
टिप्पणीः - १−(इन्द्रः) परमैश्वर्यवान् राजा (सुत्रामा) त्रैङ् पालने-मनिन्। अतिरक्षकः (स्ववान्) स्वा ज्ञातयः। प्रशस्तज्ञातियुक्तः (अवोभिः) रक्षणैः (सुमृडीकः) बहुसुखयिता (विश्ववेदाः) वेदांसि धनानि ज्ञानानि वा। बहुधनः। बहुज्ञानः। (बाधताम्) निवारयतु (द्वेषः) द्विष अप्रीतौ-विच्। द्वेष्टॄन् (अभयम्) निर्भयत्वम् (नः) अस्मभ्यम् (कृणोतु) करोतु (सुवीर्यस्य) अतिपराक्रमस्य (पतयः) पालकाः (स्याम) भवेम ॥
इस भाष्य को एडिट करें