Sidebar
अथर्ववेद - काण्ड 7/ सूक्त 90/ मन्त्र 3
सूक्त - अङ्गिराः
देवता - मन्त्रोक्ताः
छन्दः - त्र्यवसाना षट्पदा भुरिग्जगती
सूक्तम् - शत्रुबलनाशन सूक्त
यथा॒ शेपो॑ अ॒पाया॑तै स्त्री॒षु चास॒दना॑वयाः। अ॑व॒स्थस्य॑ क्न॒दीव॑तः शाङ्कु॒रस्य॑ नितो॒दिनः॑। यदात॑त॒मव॒ तत्त॑नु॒ यदुत्त॑तं॒ नि तत्त॑नु ॥
स्वर सहित पद पाठयथा॑ । शेप॑: । अ॒प॒ऽअया॑तै । स्त्री॒षु । च॒ । अस॑त् । अना॑वया: । अ॒व॒स्थस्य॑ । क्न॒दिऽव॑त: । शा॒ङ्कु॒रस्य॑ । नि॒ऽतो॒दिन॑: । यत् । आऽत॑तम् । अव॑ । तत् । त॒नु॒ । यत् । उत्ऽत॑तम् । नि । तत् । त॒नु॒ ॥९५.३॥
स्वर रहित मन्त्र
यथा शेपो अपायातै स्त्रीषु चासदनावयाः। अवस्थस्य क्नदीवतः शाङ्कुरस्य नितोदिनः। यदाततमव तत्तनु यदुत्ततं नि तत्तनु ॥
स्वर रहित पद पाठयथा । शेप: । अपऽअयातै । स्त्रीषु । च । असत् । अनावया: । अवस्थस्य । क्नदिऽवत: । शाङ्कुरस्य । निऽतोदिन: । यत् । आऽततम् । अव । तत् । तनु । यत् । उत्ऽततम् । नि । तत् । तनु ॥९५.३॥
अथर्ववेद - काण्ड » 7; सूक्त » 90; मन्त्र » 3
सूचना -
कृपया अस्य मन्त्रस्यार्थम् आर्य(हिन्दी)भाष्ये पश्यत।
टिप्पणीः - ३−(यथा) येन प्रकारेण (शेपः) अ० ४।३७।७। पराक्रमः (अपायातै) अय गतौ-लेट्। लेटोऽडाटौ। पा० ३।४।९४। आडागमः। वैतोऽन्यत्र। पा० ३।४।९६। एकारस्य ऐकारः। अपगच्छेत् (स्त्रीषु) अ० १।८।१। स्तूयते सा स्त्री, ष्टुञ् स्तुतौ−ड्रट्, ङीप्। स्तुत्यासु नारीषु यद्वा ताभिस्तुल्यासु सत्प्रजासु (अनावयाः) अन्+आङ्+ वी गतौ-असुन्। अनागमनीयः (अवस्थस्य) अव हिंसायाम्-अच्+तिष्ठतेः-क। हिंसने स्थितिशीलस्य (क्नदीवतः) खनिकष्यज्यसि०। उ० ४।१४०। क्रद आह्वानरोदनयोः-इ प्रत्ययः, मतुप्, रस्य नकारः, सांहितिको दीर्घः। संज्ञायाम्। पा० ८।२।११। मस्य वः। दुर्वचनशीलस्य (शाङ्कुरस्य) मन्दिवाशिमथि०। उ० १।३८। शकि संशये, अन्तर्गतण्यर्थः-उरच् स्वार्थेऽण्। शङ्कोत्पादकस्य (नितोदिनः) तुद व्यथने-णिनि। नित्यपीडकस्य (यत्) सामर्थ्यम् (आततम्) आयतम् (तत्) (अवतनु) सङ्कोचय (यत्) (उत्ततम्) ऊर्ध्वविस्तृतम् (तत्) सामर्थ्यम् (नितनु) नितनं नीचीनं कुरु ॥
इस भाष्य को एडिट करें