अथर्ववेद - काण्ड 7/ सूक्त 97/ मन्त्र 2
समि॑न्द्र नो॒ मन॑सा नेष॒ गोभिः॒ सं सू॒रिभि॑र्हरिव॒न्त्सं स्व॒स्त्या। सं ब्रह्म॑णा दे॒वहि॑तं॒ यदस्ति॒ सं दे॒वानां॑ सुम॒तौ य॒ज्ञिया॑नाम् ॥
स्वर सहित पद पाठसम् । इ॒न्द्र॒ । न॒: । मन॑सा । ने॒ष॒ । गोभि॑: । सम् । सू॒रिऽभि॑: । ह॒रि॒ऽव॒न् । सम् । स्व॒स्त्या । सम् । ब्रह्म॑णा । दे॒वऽहि॑तम् । यत् । अस्ति॑ । सम् । दे॒वाना॑म् । सु॒ऽम॒तौ । य॒ज्ञिया॑नाम् ॥१०२.२॥
स्वर रहित मन्त्र
समिन्द्र नो मनसा नेष गोभिः सं सूरिभिर्हरिवन्त्सं स्वस्त्या। सं ब्रह्मणा देवहितं यदस्ति सं देवानां सुमतौ यज्ञियानाम् ॥
स्वर रहित पद पाठसम् । इन्द्र । न: । मनसा । नेष । गोभि: । सम् । सूरिऽभि: । हरिऽवन् । सम् । स्वस्त्या । सम् । ब्रह्मणा । देवऽहितम् । यत् । अस्ति । सम् । देवानाम् । सुऽमतौ । यज्ञियानाम् ॥१०२.२॥
अथर्ववेद - काण्ड » 7; सूक्त » 97; मन्त्र » 2
सूचना -
कृपया अस्य मन्त्रस्यार्थम् आर्य(हिन्दी)भाष्ये पश्यत।
टिप्पणीः - २−(सम्) सम्यक्। यथावत् (इन्द्र) परमैश्वर्यवन् राजन् (नः) अस्मान् (मनसा) विज्ञानेन (नेष) णीञ् प्रापणे-लोटि शप्। सिब्बहुलं लेटि। पा० ३।१।३४। इति सिप्। अतो हेः। पा० ६।४।१०५। इति हेर्लोपः। नय। प्रापय (गोभिः) इन्द्रियैर्वाग्भिर्वा (सूरिभिः) अ० २।११।४। विद्वद्भिः (हरिवन्) हरयो मनुष्याः-निघ० २।३। प्रशस्तमनुष्ययुक्त (सम्) (स्वस्त्या) अ० १।३०।२। सुसत्तया। क्षेमेण (सम्) (ब्रह्मणा) वेदेन धनेनान्नेन वा (देवहितम्) विद्वद्भ्यो हितम् (यत्) ब्रह्म (अस्ति) (सम्) (देवानाम्) विदुषाम् (सुमतौ) श्रेष्ठायां बुद्धौ (यज्ञियानाम्) पूजार्हाणाम् ॥
इस भाष्य को एडिट करें