Loading...
अथर्ववेद > काण्ड 7 > सूक्त 97

काण्ड के आधार पर मन्त्र चुनें

  • अथर्ववेद का मुख्य पृष्ठ
  • अथर्ववेद - काण्ड 7/ सूक्त 97/ मन्त्र 7
    सूक्त - अथर्वा देवता - इन्द्राग्नी छन्दः - त्रिपदा साम्नी भुरिग्जगती सूक्तम् - यज्ञ सूक्त

    वष॑ड्ढु॒तेभ्यो॒ वष॒डहु॑तेभ्यः। देवा॑ गातुविदो गा॒तुं वि॒त्त्वा गा॒तुमि॑त ॥

    स्वर सहित पद पाठ

    वष॑ट् । हु॒तेभ्य॑: । वष॑ट् । अहु॑तेभ्य: । देवा॑: । गा॒तु॒ऽवि॒द॒: । गा॒तुम् । वि॒त्त्वा । गा॒तुम् । इ॒त॒ ॥१०२.७॥


    स्वर रहित मन्त्र

    वषड्ढुतेभ्यो वषडहुतेभ्यः। देवा गातुविदो गातुं वित्त्वा गातुमित ॥

    स्वर रहित पद पाठ

    वषट् । हुतेभ्य: । वषट् । अहुतेभ्य: । देवा: । गातुऽविद: । गातुम् । वित्त्वा । गातुम् । इत ॥१०२.७॥

    अथर्ववेद - काण्ड » 7; सूक्त » 97; मन्त्र » 7

    टिप्पणीः - ७−(वषट्) अ० १।११।१। वह प्रमाणे-डषटि। आहुतिः। भक्तिः (हुतेभ्यः) अ० ६।७१।२। मातापित्रादिभिर्दत्तेभ्यः पदार्थेभ्यः (वषट्) (अहुतेभ्यः) अदत्तेभ्यः। स्वपौरुषप्राप्तेभ्यः (देवाः) हे विजिगीषवः (गातुविदः) कमिमनिजनिगा०। उ० १।७३। गाङ् गतौ−तु। गातुः पृथिवीनाम-निघ० १।१। मार्गः। विद ज्ञाने-क्विप्। पृथिवीगुणानां ज्ञातारः (गातुम्) मार्गम् (वित्त्वा) विद्लृ लाभे−क्त्वा। लब्ध्वा (गातुम्) भूमिम्। भूमिराज्यम् (इत) प्राप्नुत ॥

    इस भाष्य को एडिट करें
    Top