अथर्ववेद - काण्ड 9/ सूक्त 6/ मन्त्र 3
सूक्त - ब्रह्मा
देवता - अतिथिः, विद्या
छन्दः - साम्नी भुरिग्बृहती
सूक्तम् - अतिथि सत्कार
नि॒धनं॒ भूत्याः॑ प्र॒जायाः॑ पशू॒नां भ॑वति॒ य ए॒वं वेद॑ ॥
स्वर सहित पद पाठनि॒ऽधन॑म् । भूत्या॑: । प्र॒ऽजाया॑: । प॒शू॒नाम् । भ॒व॒ति॒ । य: । ए॒वम् । वेद॑ ॥१०.३॥
स्वर रहित मन्त्र
निधनं भूत्याः प्रजायाः पशूनां भवति य एवं वेद ॥
स्वर रहित पद पाठनिऽधनम् । भूत्या: । प्रऽजाया: । पशूनाम् । भवति । य: । एवम् । वेद ॥१०.३॥
अथर्ववेद - काण्ड » 9; सूक्त » 6;
पर्यायः » 5;
मन्त्र » 3
सूचना -
कृपया अस्य मन्त्रस्यार्थम् आर्य(हिन्दी)भाष्ये पश्यत।
टिप्पणीः - १, २, ३−(तस्मै) गृहस्थाय (उषाः) प्रभातवेला (हिङ्) ऋत्विक्दधृक्०। पा० ३।२।५९। इति बाहुलकात्। हिवि प्रीणने−क्विन्, इति हिन्व्। स्वमोर्नपुंसकात्। पा० ७।१।२३। अमो लुक्। संयोगान्तस्य लोपः। पा० ८।२।२३। वलोपः। क्विन्प्रत्ययस्य कुः। पा० ८।२।६२। इति सानुनासिकं कुत्वम्। हिन्वति प्रीणातीति हिङ्। प्रीणनम्। तृप्तिकर्म (कृणोति) करोति (सविता) प्रेरकः सूर्यः (प्र) प्रकर्षेण (स्तौति) प्रशंसति (बृहस्पतिः) अ० १।८।२। मध्यस्थानदेवतात्वात्-निरु० १०।११। बृहतः सोमरसस्य पाता रक्षिता वायुः (ऊर्जया) प्राणशक्त्या (उत् गायति) उद्गीथं वेदगानं करोति (त्वष्टा) अ० २।५।६। त्वक्षतेः करोति कर्मणः−तृन्। मध्यस्थानदेवतात्वात्-निरु० १०।३४। अन्नादीनां कर्ता मेघः (पुष्ट्या) पोषणेन (प्रति) प्रत्यक्षम् (हरति) प्रापयति (विश्वे) सर्वे (देवाः) उत्तमगुणाः पदार्थाः (निधनम्) कॄपॄवृजिमन्दिनिधाञः क्युः। उ० २।८१। निदधातेः−क्यु। नितरां धारणम्। निधिम् (भूत्याः) वैभवस्य (प्रजायाः) सन्तानभृत्यादेः (पशूनाम्) गवाश्वगजादीनाम् (भवति) वर्तते (यः) (एवम्) पूर्वोक्तप्रकारेण (वेद) जानाति ॥
इस भाष्य को एडिट करें