अथर्ववेद - काण्ड 9/ सूक्त 6/ मन्त्र 8
सूक्त - ब्रह्मा
देवता - अतिथिः, विद्या
छन्दः - त्रिपदा विराडनुष्टुप्
सूक्तम् - अतिथि सत्कार
अति॑थी॒न्प्रति॑ पश्यति हिङ्कृणोत्य॒भि व॑दति॒ प्र स्तौत्यु॑द॒कं याच॒त्युद्गा॑यति।
स्वर सहित पद पाठअति॑थीन् । प्रति॑ । प॒श्य॒ति॒ । हिङ् । कृ॒णो॒ति॒ । अ॒भि । व॒द॒ति॒ । प्र । स्तौ॒ति॒ । उ॒द॒कम् । या॒च॒ति॒ । उत् । गा॒य॒ति॒ ॥१०.८॥
स्वर रहित मन्त्र
अतिथीन्प्रति पश्यति हिङ्कृणोत्यभि वदति प्र स्तौत्युदकं याचत्युद्गायति।
स्वर रहित पद पाठअतिथीन् । प्रति । पश्यति । हिङ् । कृणोति । अभि । वदति । प्र । स्तौति । उदकम् । याचति । उत् । गायति ॥१०.८॥
अथर्ववेद - काण्ड » 9; सूक्त » 6;
पर्यायः » 5;
मन्त्र » 8
सूचना -
कृपया अस्य मन्त्रस्यार्थम् आर्य(हिन्दी)भाष्ये पश्यत।
टिप्पणीः - ८, ९, १०−(अतिथीन्) आदरार्थं बहुवचनम्। अभ्यागतान्। महामान्यान् (प्रति) प्रतीत्य (पश्यति) अवलोकयति (अभि वदति) नमस्करोति (प्र) प्रकर्षेण (स्तौति) आत्मानं प्रशंसति (उदकम्) जलम् (याचति) अ० ९।६(१)।४। ग्रहणार्थं प्रेरयति। विनयेन ददाति (उच्छिष्टम्) उत्+शासु अनुशिष्टौ-क्त। शास इदङ्हलोः। पा० ६।४।३४। इकारः। शासिवसिघसीनां च। पा० ८।३।६०। सस्य षः। अतिशयेन शिष्टं श्रेष्ठम्। अन्यत् पूर्ववत् ॥
इस भाष्य को एडिट करें