अथर्ववेद - काण्ड 2/ सूक्त 19/ मन्त्र 5
सूक्त - अथर्वा
देवता - अग्निः
छन्दः - एकावसानानिचृद्विषमात्रिपाद्गायत्री
सूक्तम् - शत्रुनाशन सूक्त
अग्ने॒ यत्ते॒ तेज॒स्तेन॒ तम॑ते॒जसं॑ कृणु॒ यो॑३ ऽस्मान्द्वेष्टि॒ यं व॒यं द्वि॒ष्मः ॥
स्वर सहित पद पाठअग्ने॑ । यत् । ते॒ । तेज॑: । तेन॑ । तम् । अ॒ते॒जस॑म् । कृ॒णु॒ । य: । अ॒स्मान् । द्वेष्टि॑ । यम् । व॒यम् । द्वि॒ष्म: ॥१९.५॥
स्वर रहित मन्त्र
अग्ने यत्ते तेजस्तेन तमतेजसं कृणु यो३ ऽस्मान्द्वेष्टि यं वयं द्विष्मः ॥
स्वर रहित पद पाठअग्ने । यत् । ते । तेज: । तेन । तम् । अतेजसम् । कृणु । य: । अस्मान् । द्वेष्टि । यम् । वयम् । द्विष्म: ॥१९.५॥
अथर्ववेद - काण्ड » 2; सूक्त » 19; मन्त्र » 5
विषय - द्वेष करने वालों के सम्बन्ध में प्रार्थना ।
भावार्थ -
हे अग्ने ! (यः अस्मान् द्वेष्टि०) जो हम से द्वेष करता है और जिससे हम भी प्रीति नहीं करते (यत् ते तेजः) जो तेरा तेजतीक्ष्ण स्वभाव है (तेन) उस द्वारा (तं) उस पुरुष को (अतेजसं) तीक्ष्ण स्वभाव से रहित सौम्य स्वभाव वाला (कृणु) कर, बना, जिससे वह सज्जन होकर हमारा मित्र हो जाय ।
टिप्पणी -
‘यत्ते ज्योतिस्तेन तं प्रति दह’ इति पैप्प० सं० ।
ऋषि | देवता | छन्द | स्वर - अथर्वा ऋषिः । अग्निर्देवता । १-४ निचृत् सामगायत्री, २ भुरिग् विषमा । पञ्चर्चं सूक्तम् ॥
इस भाष्य को एडिट करें