अथर्ववेद - काण्ड 2/ सूक्त 31/ मन्त्र 5
सूक्त - काण्वः
देवता - मही अथवा चन्द्रमाः
छन्दः - आर्षी त्रिष्टुप्
सूक्तम् - कृमिजम्भन सूक्त
ये क्रिम॑यः॒ पर्व॑तेषु॒ वने॒ष्वोष॑धीषु प॒शुष्व॒प्स्व॑१न्तः। ये अ॒स्माकं॑ त॒न्व॑माविवि॒शुः सर्वं॒ तद्ध॑न्मि॒ जनि॑म॒ क्रिमी॑णाम् ॥
स्वर सहित पद पाठये क्रिम॑य: । पर्व॑तेषु । वने॑षु । ओष॑धीषु । प॒शुषु॑ । अ॒प्ऽसु । अ॒न्त: । ये । अ॒स्माक॑म् । त॒न्व᳡म् । आ॒ऽवि॒वि॒शु: । सर्व॑म् । तत् । ह॒न्मि॒ । जनि॑म । क्रिमी॑णाम् ॥३१.५॥
स्वर रहित मन्त्र
ये क्रिमयः पर्वतेषु वनेष्वोषधीषु पशुष्वप्स्व१न्तः। ये अस्माकं तन्वमाविविशुः सर्वं तद्धन्मि जनिम क्रिमीणाम् ॥
स्वर रहित पद पाठये क्रिमय: । पर्वतेषु । वनेषु । ओषधीषु । पशुषु । अप्ऽसु । अन्त: । ये । अस्माकम् । तन्वम् । आऽविविशु: । सर्वम् । तत् । हन्मि । जनिम । क्रिमीणाम् ॥३१.५॥
अथर्ववेद - काण्ड » 2; सूक्त » 31; मन्त्र » 5
विषय - रोगकारी जन्तुओं के नाश करने का उपदेश ।
भावार्थ -
(ये क्रिमयः) जो किमि, रोगजनक जन्तु (पर्वतेषु) पर्वतों में, (वनेषु) वनों, जंगलों में, (ओषधीषु) ओषधि आदि खाने योग्य पदार्थों में, (पशुषु) पशुओं में और (अप्सु अन्तः) पान करने योग्य जलों में रहते हों और (ये) जो (अस्माकं) हमारे (तन्वं) शरीर में व्रण मार्ग से या अन्न जल के साथ (आ विविशुः) घुस जाते हैं (सर्वं तत्) उन सब (क्रिमीणां) रोग जन्तुओं के (जनिम) जातियों को या उत्पत्ति के मूलकारण या उनकी उत्पत्ति को ही (हन्मि) मैं विनाश करूं ।
टिप्पणी -
(तृ०) ‘ते अस्माकं’ इति क्काचित्कः पाठः सायणाभिमतश्च। ‘तत्व आविशु’ इति सायणाभिमतः पाठः। (प्र०) पर्वतेषु ये वनेषु ये ओषधीषु इति पैप्प० सं०। (तृ० च०) येऽस्माकं तन्नो (त्व) स्थामचक्रि [ रे ] ‘इन्द्रस्तान् हन्तु महता वधेन’ इति पैप्प० सं०।
ऋषि | देवता | छन्द | स्वर - कण्व ऋषिः। मही चन्द्रो वा देवता । १ अनुष्टुप् । २, ४ उपरिष्टाद् विराड् बृहती । ३ आर्षी त्रिष्टुप् । पञ्चर्चं सृक्तम्॥
इस भाष्य को एडिट करें