ऋग्वेद - मण्डल 10/ सूक्त 113/ मन्त्र 8
ऋषिः - शतप्रभेदनो वैरूपः
देवता - इन्द्र:
छन्दः - स्वराडार्चीजगती
स्वरः - निषादः
विश्वे॑ दे॒वासो॒ अध॒ वृष्ण्या॑नि॒ तेऽव॑र्धय॒न्त्सोम॑वत्या वच॒स्यया॑ । र॒द्धं वृ॒त्रमहि॒मिन्द्र॑स्य॒ हन्म॑ना॒ग्निर्न जम्भै॑स्तृ॒ष्वन्न॑मावयत् ॥
स्वर सहित पद पाठविश्वे॑ । दे॒वासः॑ । अध॑ । वृष्ण्या॑नि । ते । अव॑र्धयन् । सोम॑ऽवत्या । व॒च॒स्यया॑ । र॒द्धम् । वृ॒त्रम् । अहि॑म् । इन्द्र॑स्य । हन्म॑ना । अ॒ग्निः । न । जम्भैः॑ । तृ॒षु । अन्न॑म् । आ॒व॒य॒त् ॥
स्वर रहित मन्त्र
विश्वे देवासो अध वृष्ण्यानि तेऽवर्धयन्त्सोमवत्या वचस्यया । रद्धं वृत्रमहिमिन्द्रस्य हन्मनाग्निर्न जम्भैस्तृष्वन्नमावयत् ॥
स्वर रहित पद पाठविश्वे । देवासः । अध । वृष्ण्यानि । ते । अवर्धयन् । सोमऽवत्या । वचस्यया । रद्धम् । वृत्रम् । अहिम् । इन्द्रस्य । हन्मना । अग्निः । न । जम्भैः । तृषु । अन्नम् । आवयत् ॥ १०.११३.८
ऋग्वेद - मण्डल » 10; सूक्त » 113; मन्त्र » 8
अष्टक » 8; अध्याय » 6; वर्ग » 15; मन्त्र » 3
अष्टक » 8; अध्याय » 6; वर्ग » 15; मन्त्र » 3
विषय - पराजित शत्रु का नाश और प्रजाद्वारा विजयी राजा की वृद्धि।
भावार्थ -
(अध) और (विश्वेदेवासः) समस्त विजयोद्योगी जन (सोम-वत्या) ऐश्वर्य, और शासन अधिकार से युक्त (वचस्यया) वाणी द्वारा (ते वृष्ण्यानि) तेरे बलों को (अवर्धयन्) बढ़ाते हैं। (इन्द्रस्य) शत्रुहन्ता के (हन्मना) हनन साधन से (रद्धम्) ताड़ित (अहिम् वृत्रम्) मेघवत् आवरक शत्रु को (तृषु) शीघ्र ही, ऐसे ही (आ वयत्) खाजाता वा नष्ट कर देता है जिस प्रकार (अग्निः न जभ्यैः अन्नम्) अग्नि अपने ज्वालाओं से अन्न को भस्म कर देता है, वा जठराग्नि दातों से खाये अन्न को शीघ्र पचा लेता है।
टिप्पणी -
missing
ऋषि | देवता | छन्द | स्वर - ऋषिः शतप्रभदनो वैरूपः॥ इन्द्रो देवता॥ छन्द:– १, ५ जगती। ३, ६, ९ विराड् जगती। ३ निचृज्जगती। ४ पादनिचृज्जगती। ७, ८ आर्चीस्वराड् जगती। १० पादनिचृत्त्रिष्टुप्॥ दशर्चं सूक्तम्॥
इस भाष्य को एडिट करें