Loading...
ऋग्वेद मण्डल - 10 के सूक्त 177 के मन्त्र
मण्डल के आधार पर मन्त्र चुनें
अष्टक के आधार पर मन्त्र चुनें
  • ऋग्वेद का मुख्य पृष्ठ
  • ऋग्वेद - मण्डल 10/ सूक्त 177/ मन्त्र 3
    ऋषिः - पतङ्गः प्राजापत्यः देवता - मायाभेदः छन्दः - निचृत्त्रिष्टुप् स्वरः - धैवतः

    अप॑श्यं गो॒पामनि॑पद्यमान॒मा च॒ परा॑ च प॒थिभि॒श्चर॑न्तम् । स स॒ध्रीची॒: स विषू॑ची॒र्वसा॑न॒ आ व॑रीवर्ति॒ भुव॑नेष्व॒न्तः ॥

    स्वर सहित पद पाठ

    अप॑श्यम् । गो॒पाम् । अनि॑ऽपद्यमानम् । आ । च॒ । परा॑ । च॒ । प॒थिऽभिः॑ । चर॑न्तम् । सः । स॒ध्रीचीः॑ । सः । विषू॑चीः । वसा॑नः । आ । व॒री॒व॒र्ति॒ । भुव॑नेषु । अ॒न्तरिति॑ ॥


    स्वर रहित मन्त्र

    अपश्यं गोपामनिपद्यमानमा च परा च पथिभिश्चरन्तम् । स सध्रीची: स विषूचीर्वसान आ वरीवर्ति भुवनेष्वन्तः ॥

    स्वर रहित पद पाठ

    अपश्यम् । गोपाम् । अनिऽपद्यमानम् । आ । च । परा । च । पथिऽभिः । चरन्तम् । सः । सध्रीचीः । सः । विषूचीः । वसानः । आ । वरीवर्ति । भुवनेषु । अन्तरिति ॥ १०.१७७.३

    ऋग्वेद - मण्डल » 10; सूक्त » 177; मन्त्र » 3
    अष्टक » 8; अध्याय » 8; वर्ग » 35; मन्त्र » 3

    भावार्थ -
    मैं (गोपाम्) वाणी के पालन करने वाले, प्राणवत् रक्षक को (अनि-पद्यमानम्) कभी न नाश होता हुआ, नीचे जाता हुआ (अपश्यं) देखता हूं। और उसको (आ च परा च) पास और दूर (पथिभिः) मार्गों से (चरन्तं) कर्मफल भोग करते हुए देखता हूं। (सः) वह (सध्रीचीः) साथ रहने वाली और (विचीः) चारों ओर फैलने वाली इन्द्रिय शक्तियों को (वसानः) धारण करता हुआ, (भुवनेषु अन्तः) देहों के बीच (आ वरीवर्त्ति) विद्यमान रहता है। इति पञ्चत्रिंशो वर्गः॥

    ऋषि | देवता | छन्द | स्वर - ऋषिः पतङ्गः प्राजापत्यः॥ देवता—मायाभेदः॥ छन्द:- १ जगती। २ विराट् त्रिष्टुप्। ३ निचृत् त्रिष्टुप्। तृचं सूक्तम्॥

    इस भाष्य को एडिट करें
    Top