Loading...
ऋग्वेद मण्डल - 10 के सूक्त 36 के मन्त्र
मण्डल के आधार पर मन्त्र चुनें
अष्टक के आधार पर मन्त्र चुनें
  • ऋग्वेद का मुख्य पृष्ठ
  • ऋग्वेद - मण्डल 10/ सूक्त 36/ मन्त्र 13
    ऋषिः - लुशो धानाकः देवता - विश्वेदेवा: छन्दः - त्रिष्टुप् स्वरः - धैवतः

    ये स॑वि॒तुः स॒त्यस॑वस्य॒ विश्वे॑ मि॒त्रस्य॑ व्र॒ते वरु॑णस्य दे॒वाः । ते सौभ॑गं वी॒रव॒द्गोम॒दप्नो॒ दधा॑तन॒ द्रवि॑णं चि॒त्रम॒स्मे ॥

    स्वर सहित पद पाठ

    ये । स॒वि॒तुः । स॒त्यऽस॑वस्य । विश्वे॑ । मि॒त्रस्य॑ । व्र॒ते । वरु॑णस्य । दे॒वाः । ते । सौभ॑गम् । वी॒रऽवत् । गोऽम॑त् । अप्नः॑ । दधा॑तन । द्रवि॑णम् । चि॒त्रम् । अ॒स्मे इति॑ ॥


    स्वर रहित मन्त्र

    ये सवितुः सत्यसवस्य विश्वे मित्रस्य व्रते वरुणस्य देवाः । ते सौभगं वीरवद्गोमदप्नो दधातन द्रविणं चित्रमस्मे ॥

    स्वर रहित पद पाठ

    ये । सवितुः । सत्यऽसवस्य । विश्वे । मित्रस्य । व्रते । वरुणस्य । देवाः । ते । सौभगम् । वीरऽवत् । गोऽमत् । अप्नः । दधातन । द्रविणम् । चित्रम् । अस्मे इति ॥ १०.३६.१३

    ऋग्वेद - मण्डल » 10; सूक्त » 36; मन्त्र » 13
    अष्टक » 7; अध्याय » 8; वर्ग » 11; मन्त्र » 3

    भावार्थ -
    (ये) जो (देवाः) विद्वान् जन (सत्य-सवस्य मित्रस्य) सत्य ऐश्वर्य के स्वामी, सर्वस्नेही, मृत्यु से बचाने वाले (वरुणस्य) सब दुःखों के वारणकर्त्ता, सर्वश्रेष्ठ प्रभु के (व्रते) व्रत में तत्पर हैं, (ते विश्वे) वे सब (वीरवत्) वीरों से युक्त (गोमत्) वाणियों, भूमियों और पशुओं से समृद्ध, (सौभगं) उत्तम ऐश्वर्य, और (अप्नः) उत्तम ज्ञान, कर्म और (चित्रं) संग्रह करने योग्य नाना, अद्भुत (द्रविणं) धन (अस्मे) हमें (दधातन) प्रदान करें।

    ऋषि | देवता | छन्द | स्वर - लुशो धानाक ऋषिः॥ विश्वे देवा देवताः॥ छन्द:– १, २, ४, ६–८, ११ निचृज्जगती। ३ विराड् जगती। ५, ९, १० जगती। १२ पादनिचृज्जगती। १३ त्रिष्टुप्। १४ स्वराट् त्रिष्टुप्॥ चतुर्दशर्चं सूक्तम्॥

    इस भाष्य को एडिट करें
    Top