Loading...
ऋग्वेद मण्डल - 10 के सूक्त 51 के मन्त्र
मण्डल के आधार पर मन्त्र चुनें
अष्टक के आधार पर मन्त्र चुनें
  • ऋग्वेद का मुख्य पृष्ठ
  • ऋग्वेद - मण्डल 10/ सूक्त 51/ मन्त्र 9
    ऋषिः - देवाः देवता - अग्निः सौचीकः छन्दः - भुरिक्त्रिष्टुप् स्वरः - धैवतः

    तव॑ प्रया॒जा अ॑नुया॒जाश्च॒ केव॑ल॒ ऊर्ज॑स्वन्तो ह॒विष॑: सन्तु भा॒गाः । तवा॑ग्ने य॒ज्ञो॒३॒॑ऽयम॑स्तु॒ सर्व॒स्तुभ्यं॑ नमन्तां प्र॒दिश॒श्चत॑स्रः ॥

    स्वर सहित पद पाठ

    तव॑ । प्र॒ऽया॒जाः । अ॒नु॒ऽया॒जाः । च॒ । केव॑ले । ऊर्ज॑स्वन्तः । ह॒विषः॑ । स॒न्तु॒ । भा॒गाः । तव॑ । अ॒ग्ने॒ । य॒ज्ञः । अ॒यम् । अ॒स्तु॒ । सर्वः॑ । तुभ्य॑म् । न॒म॒न्ता॒म् । प्र॒ऽदिशः॑ । चत॑स्रः ॥


    स्वर रहित मन्त्र

    तव प्रयाजा अनुयाजाश्च केवल ऊर्जस्वन्तो हविष: सन्तु भागाः । तवाग्ने यज्ञो३ऽयमस्तु सर्वस्तुभ्यं नमन्तां प्रदिशश्चतस्रः ॥

    स्वर रहित पद पाठ

    तव । प्रऽयाजाः । अनुऽयाजाः । च । केवले । ऊर्जस्वन्तः । हविषः । सन्तु । भागाः । तव । अग्ने । यज्ञः । अयम् । अस्तु । सर्वः । तुभ्यम् । नमन्ताम् । प्रऽदिशः । चतस्रः ॥ १०.५१.९

    ऋग्वेद - मण्डल » 10; सूक्त » 51; मन्त्र » 9
    अष्टक » 8; अध्याय » 1; वर्ग » 11; मन्त्र » 4

    भावार्थ -
    हे (अग्ने) देहान्तर्गत अग्ने ! जीव ! (तव) तेरे (केवले) असाधारण (प्रयाजाः अनुयाजाः) प्रयाज, अनुयाज और (हविषः ऊर्जस्वन्तः भागाः) हवि, अन्न के बलशाली भाग, (सन्तु) हों। (अयं सर्वः यज्ञः तव अस्तु) यह समस्त यज्ञ तेरा ही हो। (तुभ्यं चतस्रः प्रदिशः नमन्ताम्) तेरे आगे चारों दिशाएं झुकें। तुझे आदर से देखें। यज्ञ में अग्नि के प्रयाज अनुयाज और हवि के भागों के समान इस जीव के लिये उत्तम ज्ञानदातागण हैं, वे ‘प्रयाज’ और अनुकूल मित्रवर्ग अनुगामी हैं वे ‘अनुयाज’ और ज्ञानसेवी बलवान्, सहयोगी ‘ऊर्जस्वान्’ पुरुष हों। इत्येकादशो वर्गः॥

    ऋषि | देवता | छन्द | स्वर - १, ३, ५, ७, ९ देवा ऋषयः। २,४,६, ८ अग्निः सौचीक ऋषिः। देवता—१, ३ ५, ७, ९ अग्निः सौचीकः। २, ४, ६, ८ देवाः॥ छन्दः— १, ३ निचृत् त्रिष्टुप्। २, ५, ६ विराट् त्रिष्टुप्। ४, ७ त्रिष्टुप्। ८, ९ भुरिक् त्रिष्टुप्। नवर्चं सूक्तम्॥

    इस भाष्य को एडिट करें
    Top