Loading...
ऋग्वेद मण्डल - 10 के सूक्त 65 के मन्त्र
मण्डल के आधार पर मन्त्र चुनें
अष्टक के आधार पर मन्त्र चुनें
  • ऋग्वेद का मुख्य पृष्ठ
  • ऋग्वेद - मण्डल 10/ सूक्त 65/ मन्त्र 3
    ऋषिः - वसुकर्णो वासुक्रः देवता - विश्वेदेवा: छन्दः - विराड्जगती स्वरः - निषादः

    तेषां॒ हि म॒ह्ना म॑ह॒ताम॑न॒र्वणां॒ स्तोमाँ॒ इय॑र्म्यृत॒ज्ञा ऋ॑ता॒वृधा॑म् । ये अ॑प्स॒वम॑र्ण॒वं चि॒त्ररा॑धस॒स्ते नो॑ रासन्तां म॒हये॑ सुमि॒त्र्याः ॥

    स्वर सहित पद पाठ

    तेषा॑म् । हि । म॒ह्ना । मा॒ह॒ताम् । अ॒न॒र्वणा॑म् । स्तोमा॑न् । इय॑र्मि । ऋ॒त॒ऽज्ञाः । ऋ॒त॒ऽवृधा॑म् । ये । अ॒प्स॒वम् । अ॒र्ण॒वम् । चि॒त्रऽरा॑धसः । ते । नः॒ । रा॒स॒न्ता॒म् । म॒हये॑ । सु॒ऽमि॒त्र्याः ॥


    स्वर रहित मन्त्र

    तेषां हि मह्ना महतामनर्वणां स्तोमाँ इयर्म्यृतज्ञा ऋतावृधाम् । ये अप्सवमर्णवं चित्रराधसस्ते नो रासन्तां महये सुमित्र्याः ॥

    स्वर रहित पद पाठ

    तेषाम् । हि । मह्ना । माहताम् । अनर्वणाम् । स्तोमान् । इयर्मि । ऋतऽज्ञाः । ऋतऽवृधाम् । ये । अप्सवम् । अर्णवम् । चित्रऽराधसः । ते । नः । रासन्ताम् । महये । सुऽमित्र्याः ॥ १०.६५.३

    ऋग्वेद - मण्डल » 10; सूक्त » 65; मन्त्र » 3
    अष्टक » 8; अध्याय » 2; वर्ग » 9; मन्त्र » 3

    भावार्थ -
    मैं (ऋत-ज्ञाः) यथार्थ सत्य ज्ञान का जानने वाला (मह्ना महताम्) अपने महान् सामर्थ्य से महान्, उन (अनर्वणाम्) अन्य चालक की अपेक्षा न करने वाले, स्वयं गतिशील, (ऋत-वृधाम्) सत्य, बल, अन्न, ज्ञान, यज्ञ, तेज को बढ़ाने वाले वा उनसे स्वयं बढ़ने वाले (तेषाम्) उनके (स्तोमान् इयर्मि) स्तुत्य गुणों और स्तुति योग्य वचनों को कहता हूं। (ये) जो (चित्र-राधसः) बहुत धनों के स्वामी होकर (अप्सवम्) जलों के उत्पादक (अर्णवम्) जलों से पूर्ण आकाश वा मेघ को उत्पन्न करते वा वर्षाते हैं ते (सुमित्र्याः) उत्तम मित्र कहाने योग्य हैं। (ते) वे (नः) हमें (महये) महान् सामर्थ्य प्राप्त करने के लिये (रासन्ताम्) उपदेश करें और ऐश्वर्य प्रदान करें।

    ऋषि | देवता | छन्द | स्वर - वसुकर्णो वासुक्रः॥ विश्वेदेवा देवताः॥ छन्द:– १, ४, ६, १०, १२, १३ निचृज्जगती। ३, ७, ९ विराड् जगती। ५, ८, ११ जगती। १४ त्रिष्टुप्। १५ विराट् त्रिष्टुप्॥

    इस भाष्य को एडिट करें
    Top