Loading...
ऋग्वेद मण्डल - 10 के सूक्त 69 के मन्त्र
मण्डल के आधार पर मन्त्र चुनें
अष्टक के आधार पर मन्त्र चुनें
  • ऋग्वेद का मुख्य पृष्ठ
  • ऋग्वेद - मण्डल 10/ सूक्त 69/ मन्त्र 3
    ऋषिः - सुमित्रो वाध्र्यश्चः देवता - अग्निः छन्दः - त्रिष्टुप् स्वरः - धैवतः

    यत्ते॒ मनु॒र्यदनी॑कं सुमि॒त्रः स॑मी॒धे अ॑ग्ने॒ तदि॒दं नवी॑यः । स रे॒वच्छो॑च॒ स गिरो॑ जुषस्व॒ स वाजं॑ दर्षि॒ स इ॒ह श्रवो॑ धाः ॥

    स्वर सहित पद पाठ

    यत् । ते॒ । मनुः॑ । यत् । अनी॑कम् । सु॒ऽमि॒त्रः । स॒म्ऽई॒धे । अ॒ग्ने॒ । तत् । इ॒दम् । नवी॑यः । सः । रे॒वत् । शो॒च॒ । सः । गिरः॑ । जु॒ष॒स्व॒ । सः । वाज॑म् । द॒र्षि॒ । सः । इ॒ह । श्रवः॑ । धाः॒ ॥


    स्वर रहित मन्त्र

    यत्ते मनुर्यदनीकं सुमित्रः समीधे अग्ने तदिदं नवीयः । स रेवच्छोच स गिरो जुषस्व स वाजं दर्षि स इह श्रवो धाः ॥

    स्वर रहित पद पाठ

    यत् । ते । मनुः । यत् । अनीकम् । सुऽमित्रः । सम्ऽईधे । अग्ने । तत् । इदम् । नवीयः । सः । रेवत् । शोच । सः । गिरः । जुषस्व । सः । वाजम् । दर्षि । सः । इह । श्रवः । धाः ॥ १०.६९.३

    ऋग्वेद - मण्डल » 10; सूक्त » 69; मन्त्र » 3
    अष्टक » 8; अध्याय » 2; वर्ग » 19; मन्त्र » 3

    भावार्थ -
    हे (अग्ने) तेजस्विन् ! अग्रणी, सेना वा प्रजा को सन्मार्ग पर ले चलनेहारे राजन् ! (ते) तेरे (यत्) जिस (अनीकम्) मुख्य प्राणवत् बलयुक्त सैन्य का (मनुः) ज्ञानवान् और शत्रु की रोक थाम करने में कुशल पुरुष और (सु-मित्रः) सुखपूर्वक शत्रु से मारे जाने से बचाने वाला वीर पुरुष (सम्-ईधे) प्रदीप्त या प्रज्वलित करता है, (तत् इत्) वह बल ही (नवीयः) सबसे अधिक स्तुति योग्य होता है। (सः) वह तू (रेवत्) ऐश्वर्यवान् होकर (शोच) खूब २ चमक। (सः) वह तू (गिरः जुषस्व) ज्ञान वाणियों, स्तुतियों वा उत्तम उपदेष्टाओं को प्रेम से स्वीकार कर (सः) वह तू (वाजं दर्षि) ज्ञान, बल और ऐश्वर्य अन्यों को प्रदान कर और शत्रु के (वाजं दर्षि) बल आदि को विनष्ट कर। (सः) वह तू (इह) इस लोक में (श्रवः धाः) अन्न, यश और कीर्ति को धारण कर।

    ऋषि | देवता | छन्द | स्वर - सुमित्रो वाध्र्यश्वः॥ अग्निर्देवता॥ छन्दः- १ निचृज्जगती। २ विराड् जगती। ३, ७ त्रिष्टुप्। ४, ५, १२ निचृत् त्रिष्टुप्। ६ आर्ची स्वराट् त्रिष्टुप्। ८, १० पादनिचृत् त्रिष्टुप्। ९, ११ विराट् त्रिष्टुप्॥ द्वादशर्चं सूक्तम॥

    इस भाष्य को एडिट करें
    Top