ऋग्वेद - मण्डल 10/ सूक्त 88/ मन्त्र 3
ऋषिः - मूर्धन्वानाङ्गिरसो वामदेव्यो वा
देवता - सूर्यवैश्वानरौ
छन्दः - विराट्त्रिष्टुप्
स्वरः - धैवतः
दे॒वेभि॒र्न्वि॑षि॒तो य॒ज्ञिये॑भिर॒ग्निं स्तो॑षाण्य॒जरं॑ बृ॒हन्त॑म् । यो भा॒नुना॑ पृथि॒वीं द्यामु॒तेमामा॑त॒तान॒ रोद॑सी अ॒न्तरि॑क्षम् ॥
स्वर सहित पद पाठदे॒वेभिः॑ । नु । इ॒षि॒तः । य॒ज्ञिये॑भिः । अ॒ग्निम् । स्तो॒षा॒णि॒ । अ॒जर॑म् । बृ॒हन्त॑म् । यः । भा॒नुना॑ । पृ॒थि॒वीम् । द्याम् । उ॒त । इ॒माम् । आ॒त॒तान॑ । रोद॑सी॒ इति॑ । अ॒न्तरि॑क्षम् ॥
स्वर रहित मन्त्र
देवेभिर्न्विषितो यज्ञियेभिरग्निं स्तोषाण्यजरं बृहन्तम् । यो भानुना पृथिवीं द्यामुतेमामाततान रोदसी अन्तरिक्षम् ॥
स्वर रहित पद पाठदेवेभिः । नु । इषितः । यज्ञियेभिः । अग्निम् । स्तोषाणि । अजरम् । बृहन्तम् । यः । भानुना । पृथिवीम् । द्याम् । उत । इमाम् । आततान । रोदसी इति । अन्तरिक्षम् ॥ १०.८८.३
ऋग्वेद - मण्डल » 10; सूक्त » 88; मन्त्र » 3
अष्टक » 8; अध्याय » 4; वर्ग » 10; मन्त्र » 3
अष्टक » 8; अध्याय » 4; वर्ग » 10; मन्त्र » 3
विषय - महान् व्यापक अग्नि, प्रभु का वर्णन।
भावार्थ -
उसी महान् अग्नि का पुनः वर्णन करते हैं। मैं (यज्ञियेभिः) यज्ञ, देवपूजन और सत्संगति करने योग्य विद्वानों से (इषितः) प्रेरित होकर उस (अजरम्) अविनाशी, (बृहन्तम् अग्निम् स्तोषाणि) महान् अग्नि की स्तुति करूं (यः) जो (भानुना) अपने तेज से (पृथिवीम् उत द्याम्) इस पृथिवी और महान् आकाश को और (रोदसी अन्तरिक्षम्) पृथिवी, आकाश के बीच के अन्तरिक्ष को भी (आततान) विस्तृत करता है।
टिप्पणी -
missing
ऋषि | देवता | छन्द | स्वर - ऋषिः मूर्धन्वानाङ्गिरसो वामदेव्यो वा॥ देवता—सूर्यवैश्वानरो॥ छन्दः—१–४, ७, १५, १९ विराट् त्रिष्टुप्। ५, ८ त्रिष्टुप्। ६, ९–१४, १६, १७ निचृत् त्रिष्टुप्। १८ आर्ची स्वराट् त्रिष्टुप्। एकोनविंशत्यृचं सूक्तम्।
इस भाष्य को एडिट करें