Loading...
ऋग्वेद मण्डल - 10 के सूक्त 90 के मन्त्र
मण्डल के आधार पर मन्त्र चुनें
अष्टक के आधार पर मन्त्र चुनें
  • ऋग्वेद का मुख्य पृष्ठ
  • ऋग्वेद - मण्डल 10/ सूक्त 90/ मन्त्र 13
    ऋषिः - नारायणः देवता - पुरुषः छन्दः - निचृदनुष्टुप् स्वरः - गान्धारः

    च॒न्द्रमा॒ मन॑सो जा॒तश्चक्षो॒: सूर्यो॑ अजायत । मुखा॒दिन्द्र॑श्चा॒ग्निश्च॑ प्रा॒णाद्वा॒युर॑जायत ॥

    स्वर सहित पद पाठ

    च॒न्द्रमा॑ । मन॑सः । जा॒तः । चक्षोः॑ । सूर्यः॑ । अ॒जा॒य॒त॒ । मुखा॑त् । इन्द्रः॑ । च॒ । अ॒ग्निः । च॒ । प्रा॒णात् । वा॒युः । अ॒जा॒य॒त॒ ॥


    स्वर रहित मन्त्र

    चन्द्रमा मनसो जातश्चक्षो: सूर्यो अजायत । मुखादिन्द्रश्चाग्निश्च प्राणाद्वायुरजायत ॥

    स्वर रहित पद पाठ

    चन्द्रमा । मनसः । जातः । चक्षोः । सूर्यः । अजायत । मुखात् । इन्द्रः । च । अग्निः । च । प्राणात् । वायुः । अजायत ॥ १०.९०.१३

    ऋग्वेद - मण्डल » 10; सूक्त » 90; मन्त्र » 13
    अष्टक » 8; अध्याय » 4; वर्ग » 19; मन्त्र » 3

    भावार्थ -

    (मनसः) मन अर्थात् मनन करने के सामर्थ्य से (चन्द्रमा जातः) चन्द्र हुआ। (चक्षोः) रूप दर्शन के सामर्थ्य से (सूर्यः अजायत) सूर्य हुआ। (मुखात् इन्द्रः च अग्निः च) और मुख से इन्द्र और अग्नि, विद्युत् और आग अर्थात् तेजस्तत्त्व हुए। और (प्राणात्) प्राण से (वायुः अजायत) वायु हुआ।

    ऋषि | देवता | छन्द | स्वर -

    ऋषिर्नारायणः॥ पुरुषो देवता॥ छन्दः–१–३, ७, १०, १२, निचृदनुष्टुप्। ४–६, ९, १४, १५ अनुष्टुप्। ८, ११ विराडनुष्टुप्। १६ विराट् त्रिष्टुप्॥

    इस भाष्य को एडिट करें
    Top