ऋग्वेद - मण्डल 6/ सूक्त 47/ मन्त्र 4
अ॒यं स यो व॑रि॒माणं॑ पृथि॒व्या व॒र्ष्माणं॑ दि॒वो अकृ॑णोद॒यं सः। अ॒यं पी॒यूषं॑ ति॒सृषु॑ प्र॒वत्सु॒ सोमो॑ दाधारो॒र्व१॒॑न्तरि॑क्षम् ॥४॥
स्वर सहित पद पाठअ॒यम् । सः । यः । व॒रि॒माण॑म् । पृ॒थि॒व्याः । व॒र्ष्माण॑म् । दि॒वः । अकृ॑णोत् । अ॒यम् । सः । अ॒यम् । पी॒यूष॑म् । ति॒सृषु॑ । प्र॒वत्ऽसु॑ । सोमः॑ । दा॒धा॒र॒ । उ॒रु । अ॒न्तरि॑क्षम् ॥
स्वर रहित मन्त्र
अयं स यो वरिमाणं पृथिव्या वर्ष्माणं दिवो अकृणोदयं सः। अयं पीयूषं तिसृषु प्रवत्सु सोमो दाधारोर्व१न्तरिक्षम् ॥४॥
स्वर रहित पद पाठअयम्। सः। यः। वरिमाणम्। पृथिव्याः। वर्ष्माणम्। दिवः। अकृणोत्। अयम्। सः। अयम्। पीयूषम्। तिसृषु। प्रवत्ऽसु। सोमः। दाधार। उरु। अन्तरिक्षम् ॥४॥
ऋग्वेद - मण्डल » 6; सूक्त » 47; मन्त्र » 4
अष्टक » 4; अध्याय » 7; वर्ग » 30; मन्त्र » 4
अष्टक » 4; अध्याय » 7; वर्ग » 30; मन्त्र » 4
विषय - व्यापक सोमतत्व ।
भावार्थ -
व्यापक सोम तत्व का वर्णन । ( अयं सोमः ) यह वह सोम, सबका उत्पादक, सबका प्रेरक पदार्थ या बल है ( यः ) जो (पृथिव्याः) पृथिवी के (वरिमाणं ) श्रेष्ठ और बड़प्पन को (अकृणोत् ) बनाता है, ( अयं सः ) यह वह पदार्थ है जो ( दिवः वर्ष्माणं ) सूर्य वा आकाश वृष्टिकारक सामर्थ्य और ( वर्ष्माणं ) दृढ़त्व वा समस्त लोकों के बन्धन वा नियन्त्रण करने वाले सामर्थ्य को ( अकृणोत् ) उत्पन्न करता है । ( अयं ) यह ( तिसृषु ) तीनों ( प्रवत्सु ) ऊपर नीचे की भूमियों में भी ( पीयूष ) जल तत्व को और ( उरु अन्तरिक्षं ) विशाल अन्तरिक्ष वा जल को भी वायुवत् ( दाधार ) धारण करता है ।
टिप्पणी -
सोमः - स्वा वै मे एषा तस्मात्सोमो नाम । श० ३ । ९ । ४ । २२ ॥ श्रीर्वै सोमः । श० ४ । १ । ३९ ॥ राजा वै सोमः श० १४ । १ । ३ । १२ । सोमो राजा राजपतिः । तै २ । ५ ॥ ६ ॥ ३ ॥ अयं वै सोमो राजा विचक्षणश्चन्द्रमाः । कौ० ४ ॥ ४ ॥ क्षत्रं सोमः । २ । ३८ ॥ अन्नं सोमः कौ० ९ । ६ ॥ उत्तमं वा एतत् हविर्यत् सोमः । श० १२ । ८ । २ । १२॥ प्राणः सोमः श० ७ । ३ । १ । २ ॥ रेतः सोमः । कौ० १३ ॥ ७ ॥ एष वै ब्राह्मणानां सभासाहः सखा यत्सोमो । राजा ऐ० १ । १३ ॥ सोमो वै ब्राह्मणः । ता० २३ । १६ । ५ ॥ पुमान् वै सोमः स्त्री सुरा तै० १ । ३ । ३४ ॥ इन उद्धरणों से सोम शब्द से आत्मा, ऐश्वर्य, राजा, विद्वान् क्षत्रियबल, अन्न, प्राण, वीर्य, प्रजा, विद्वान्, सभापति, ब्राह्मण और वीर्यवान् पुरुष ये सब 'सोम' कहाते हैं ।
ऋषि | देवता | छन्द | स्वर - गर्ग ऋषिः । १ – ५ सोमः । ६-१९, २०, २१-३१ इन्द्रः । २० - लिंगोत्का देवताः । २२ – २५ प्रस्तोकस्य सार्ञ्जयस्य दानस्तुतिः । २६–२८ रथ: । २९ – ३१ दुन्दुभिर्देवता ॥ छन्दः–१, ३, ५, २१, २२, २८ निचृत्त्रिष्टुप् । ४, ८, ११ विराट् त्रिष्टुप् । ६, ७, १०, १५, १६, १८, २०, २९, ३० त्रिष्टुप् । २७ स्वराट् त्रिष्टुप् । २, ९, १२, १३, २६, ३१ भुरिक् पंक्तिः । १४, १७ स्वराटू पंकिः । २३ आसुरी पंक्ति: । १९ बृहती । २४, २५ विराड् गायत्री ।। एकत्रिंशदृचं सूक्तम् ॥
इस भाष्य को एडिट करें