ऋग्वेद - मण्डल 8/ सूक्त 40/ मन्त्र 2
ऋषिः - नाभाकः काण्वः
देवता - इन्द्राग्नी
छन्दः - स्वराट्शक्वरी
स्वरः - धैवतः
न॒हि वां॑ व॒व्रया॑म॒हेऽथेन्द्र॒मिद्य॑जामहे॒ शवि॑ष्ठं नृ॒णां नर॑म् । स न॑: क॒दा चि॒दर्व॑ता॒ गम॒दा वाज॑सातये॒ गम॒दा मे॒धसा॑तये॒ नभ॑न्तामन्य॒के स॑मे ॥
स्वर सहित पद पाठन॒हि । वा॒म् । व॒व्रया॑महे । अथ॑ । इन्द्र॑म् । इत् । य॒जा॒म॒हे॒ । शवि॑ष्ठम् । नृ॒णाम् । नर॑म् । सः । नः॒ । क॒दा । चि॒त् । अर्व॑ता । गम॑त् । आ । वाज॑ऽसातये । गम॑त् । आ । मे॒धऽसा॑तये । नभ॑न्ताम् । अ॒न्य॒के । स॒मे॒ ॥
स्वर रहित मन्त्र
नहि वां वव्रयामहेऽथेन्द्रमिद्यजामहे शविष्ठं नृणां नरम् । स न: कदा चिदर्वता गमदा वाजसातये गमदा मेधसातये नभन्तामन्यके समे ॥
स्वर रहित पद पाठनहि । वाम् । वव्रयामहे । अथ । इन्द्रम् । इत् । यजामहे । शविष्ठम् । नृणाम् । नरम् । सः । नः । कदा । चित् । अर्वता । गमत् । आ । वाजऽसातये । गमत् । आ । मेधऽसातये । नभन्ताम् । अन्यके । समे ॥ ८.४०.२
ऋग्वेद - मण्डल » 8; सूक्त » 40; मन्त्र » 2
अष्टक » 6; अध्याय » 3; वर्ग » 24; मन्त्र » 2
अष्टक » 6; अध्याय » 3; वर्ग » 24; मन्त्र » 2
विषय - इन्द्र, अग्नि, वायु, आग के समान विद्वानों के ज्ञान और तेजस्वी नायक के तेज, पराक्रम से दुष्टों का नाश।
भावार्थ -
हे ( इन्द्राग्नी ) ऐश्वर्यवत् शत्रुहन्तः ! हे अग्ने विद्वन् ! हम (वां नहि वव्रयामहे) आप दोनों से कुछ याचना नहीं करते। ( अथ ) प्रत्युत (नृणां) मनुष्यों के बीच (नरम्) नायक (शविष्ठं) सब से अधिक बलशाली, (इन्द्रम्) ऐश्वर्यवान्, शत्रुहन्ता ऐश्वर्यप्रद की (यजामहे) प्रतिष्ठा और सत्संगति करते हैं। (सः नः कदाचित्) वह कभी हमें (अर्वता आगमत्) अश्व, या शत्रुहन्ता सैन्यसहित, (वाज-सातये) ऐश्वर्य प्राप्ति के लिये प्राप्त हो और कभी (मेधसातये आगमत्) अन्न, यज्ञ और संग्रामादि के लिये प्राप्त हो। इस प्रकार उसके ( समे अन्यके नभन्ताम् ) समस्त शत्रु नाश को प्राप्त हों।
टिप्पणी -
missing
ऋषि | देवता | छन्द | स्वर - नाभाक: काण्व ऋषिः॥ इन्दाग्नी देवते॥ छन्दः—१, ११ भुरिक् त्रिष्टुप्। ३, ४ स्वराट् त्रिष्टुप्। १२ निचत् त्रिष्टुप्। २ स्वराट् शक्वरी। ५, ७, जगती। ६ भुरिग्जगती। ८, १० निचृज्जगती। द्वादशर्चं सूक्तम्॥
इस भाष्य को एडिट करें