ऋग्वेद - मण्डल 8/ सूक्त 59/ मन्त्र 6
ऋषिः - सुपर्णः काण्वः
देवता - इन्द्रावरुणौ
छन्दः - त्रिष्टुप्
स्वरः - धैवतः
इन्द्रा॑वरुणा॒ यदृ॒षिभ्यो॑ मनी॒षां वा॒चो म॒तिं श्रु॒तम॑दत्त॒मग्रे॑ । यानि॒ स्थाना॑न्यसृजन्त॒ धीरा॑ य॒ज्ञं त॑न्वा॒नास्तप॑सा॒भ्य॑पश्यम् ॥
स्वर सहित पद पाठइन्द्रा॑वरुणा । यत् । ऋ॒षिऽभ्यः॑ । म॒नी॒षाम् । वा॒चः । म॒तिम् । श्रु॒तम् । अ॒द॒त्त॒म् । अग्रे॑ । यानि॑ । स्थाना॑नि । अ॒सृ॒ज॒न्त॒ । धीराः॑ । य॒ज्ञम् । त॒न्वा॒नाः । तप॑सा । अ॒भि । अ॒प॒श्य॒म् ॥
स्वर रहित मन्त्र
इन्द्रावरुणा यदृषिभ्यो मनीषां वाचो मतिं श्रुतमदत्तमग्रे । यानि स्थानान्यसृजन्त धीरा यज्ञं तन्वानास्तपसाभ्यपश्यम् ॥
स्वर रहित पद पाठइन्द्रावरुणा । यत् । ऋषिऽभ्यः । मनीषाम् । वाचः । मतिम् । श्रुतम् । अदत्तम् । अग्रे । यानि । स्थानानि । असृजन्त । धीराः । यज्ञम् । तन्वानाः । तपसा । अभि । अपश्यम् ॥ ८.५९.६
ऋग्वेद - मण्डल » 8; सूक्त » 59; मन्त्र » 6
अष्टक » 6; अध्याय » 4; वर्ग » 31; मन्त्र » 2
अष्टक » 6; अध्याय » 4; वर्ग » 31; मन्त्र » 2
विषय - गुरु और आचार्य के कर्त्तव्य।
भावार्थ -
हे ( इन्द्रावरुणा ) सत्य ज्ञान के साक्षात् दर्शन करने वाले 'इन्द्र' और गुरु, आचार्य रूप से वरण करने योग्य और पापों से निवारण से करने हारे श्रेष्ठ जनो ! आप दोनों ( यत् ) जिस ( मनीषाम् ) ज्ञान की प्रेरणा, और ( याः वाचः ) जिन वाणियों और (याम् मतिम् ) जिस बुद्धि और ( यत् श्रुतम् ) गुरु द्वारा श्रवण करने योग्य जिस वेदोपदेश को ( अग्रे ) सबसे प्रथम ( अदत्तम् ) प्रदान करते हो और या जिन ( स्थानानि ) स्थानों, पदों या गृहादि शालाओं, आश्रमों वा लोकों को ( धीराः ) बुद्धिमान् लोग ( यज्ञं तन्वानाः ) यज्ञ का विस्तार करते हुए ( असृजन्त ) बनाते हैं उन सब को मैं ( तपसा अभि अपश्यम् ) तप द्वारा साक्षात् करूं।
टिप्पणी -
missing
ऋषि | देवता | छन्द | स्वर - सुपर्णः काण्व ऋषिः॥ इन्द्रावरुणौ देवते॥ छन्दः—१ जगती। २, ३ निचृज्जगती। ४, ५, ७ विराड् जगती। ६ त्रिष्टुप्॥ षडृचं सूक्तम्॥
इस भाष्य को एडिट करें