Loading...
ऋग्वेद मण्डल - 8 के सूक्त 82 के मन्त्र
मण्डल के आधार पर मन्त्र चुनें
अष्टक के आधार पर मन्त्र चुनें
  • ऋग्वेद का मुख्य पृष्ठ
  • ऋग्वेद - मण्डल 8/ सूक्त 82/ मन्त्र 9
    ऋषिः - कुसीदी काण्वः देवता - इन्द्र: छन्दः - निचृद्गायत्री स्वरः - षड्जः

    यं ते॑ श्ये॒नः प॒दाभ॑रत्ति॒रो रजां॒स्यस्पृ॑तम् । पिबेद॑स्य॒ त्वमी॑शिषे ॥

    स्वर सहित पद पाठ

    यम् । ते॒ । श्ये॒नः । प॒दा । अभ॑रत् । ति॒रः । रजां॑सि । अस्पृ॑तम् । पिब॑ । इत् । अ॒स्य॒ । त्वम् । ई॒शि॒षे॒ ॥


    स्वर रहित मन्त्र

    यं ते श्येनः पदाभरत्तिरो रजांस्यस्पृतम् । पिबेदस्य त्वमीशिषे ॥

    स्वर रहित पद पाठ

    यम् । ते । श्येनः । पदा । अभरत् । तिरः । रजांसि । अस्पृतम् । पिब । इत् । अस्य । त्वम् । ईशिषे ॥ ८.८२.९

    ऋग्वेद - मण्डल » 8; सूक्त » 82; मन्त्र » 9
    अष्टक » 6; अध्याय » 6; वर्ग » 2; मन्त्र » 4

    भावार्थ -
    हे ऐश्वर्यवन् ! राजन् ! ( यम् ) जिस सोम अर्थात् ऐश्वर्य को ( श्येनः ) बाज़ के समान आक्रमण करने वाला पराक्रमी सेनापति ( रजांसि तिरः ) समस्त शत्रु जनों को पराजित करके ( अस्पृतम् ) शत्रुओं से अछूते या अनुपयुक्त रूप में ही ( पदा ) पदाति सैन्य द्वारा ( ते आ भरत् ) तेरे लिये ले आता है ( अस्य त्वम् ईशिषे ) उसका तू ही स्वामी है। तू ही उसका ( पिब इत् ) उपभोग कर। इति द्वितीय वर्गः॥

    ऋषि | देवता | छन्द | स्वर - कुसीदी काण्व ऋषिः॥ इन्द्रो देवता॥ छन्दः—१, ७, ६ निचृद् गायत्री। २, ५, ६, ८ गायत्री। ३, ४ विराड् गायत्री॥ नवर्चं सूक्तम्॥

    इस भाष्य को एडिट करें
    Top