Loading...
ऋग्वेद मण्डल - 8 के सूक्त 97 के मन्त्र
मण्डल के आधार पर मन्त्र चुनें
अष्टक के आधार पर मन्त्र चुनें
  • ऋग्वेद का मुख्य पृष्ठ
  • ऋग्वेद - मण्डल 8/ सूक्त 97/ मन्त्र 1
    ऋषिः - रेभः काश्यपः देवता - इन्द्र: छन्दः - विराड्बृहती स्वरः - मध्यमः

    या इ॑न्द्र॒ भुज॒ आभ॑र॒: स्व॑र्वाँ॒ असु॑रेभ्यः । स्तो॒तार॒मिन्म॑घवन्नस्य वर्धय॒ ये च॒ त्वे वृ॒क्तब॑र्हिषः ॥

    स्वर सहित पद पाठ

    याः । इ॒न्द्र॒ । भुजः॑ । आ । अभ॑रः । स्वः॑ऽवान् । असु॑रेभ्यः । स्तो॒तार॑म् । इत् । म॒घ॒ऽव॒न् । अ॒स्य॒ । व॒र्ध॒य॒ । ये । च॒ । त्वे इति॑ । वृ॒क्तऽब॑र्हिषः ॥


    स्वर रहित मन्त्र

    या इन्द्र भुज आभर: स्वर्वाँ असुरेभ्यः । स्तोतारमिन्मघवन्नस्य वर्धय ये च त्वे वृक्तबर्हिषः ॥

    स्वर रहित पद पाठ

    याः । इन्द्र । भुजः । आ । अभरः । स्वःऽवान् । असुरेभ्यः । स्तोतारम् । इत् । मघऽवन् । अस्य । वर्धय । ये । च । त्वे इति । वृक्तऽबर्हिषः ॥ ८.९७.१

    ऋग्वेद - मण्डल » 8; सूक्त » 97; मन्त्र » 1
    अष्टक » 6; अध्याय » 6; वर्ग » 36; मन्त्र » 1

    भावार्थ -
    हे ( इन्द्र ) ऐश्वर्यवन् ! तू ( स्वर्वान् ) आदित्य के समान तेजस्वी पुरुषों का स्वामी होकर ( असुरेभ्यः ) प्राण वाले जीवों के हितार्थ ( याः भुजः आभर ) जिन योग्य पदार्थों को प्रदान करता है, ( अस्य ) इस धन से तू ( स्तोतारम् इत् ) स्तुतिकर्त्ता विद्वान् को ही हे ( मघवन् ) ऐश्वर्यवन् ! ( वर्धय ) बढ़ा और उन को भी बढ़ा ( ये च तव ) जो तेरे लिये ( वृक्त-बर्हिषः ) उत्तम आसन बिछाते हैं या तेरे अधीन रहकर शत्रु को कुश-तृणवत् छेदन करते हैं।

    ऋषि | देवता | छन्द | स्वर - रेभः काश्यप ऋषिः॥ इन्द्रो देवता॥ छन्दः—१, ११ विराड् बृहती। २, ६, ९, १२ निचृद् बृहती। ४, ५, बृहती। ३ भुरिगनुष्टुप्। ७ अनुष्टुप्। १० भुरिग्जगती। १३ अतिजगती। १५ ककुम्मती जगती। १४ विराट् त्रिष्टुप्॥ पञ्चदशर्चं सूक्तम्॥

    इस भाष्य को एडिट करें
    Top