Loading...
ऋग्वेद मण्डल - 9 के सूक्त 72 के मन्त्र
मण्डल के आधार पर मन्त्र चुनें
अष्टक के आधार पर मन्त्र चुनें
  • ऋग्वेद का मुख्य पृष्ठ
  • ऋग्वेद - मण्डल 9/ सूक्त 72/ मन्त्र 2
    ऋषिः - हरिमन्तः देवता - पवमानः सोमः छन्दः - निचृज्जगती स्वरः - निषादः

    सा॒कं व॑दन्ति ब॒हवो॑ मनी॒षिण॒ इन्द्र॑स्य॒ सोमं॑ ज॒ठरे॒ यदा॑दु॒हुः । यदी॑ मृ॒जन्ति॒ सुग॑भस्तयो॒ नर॒: सनी॑ळाभिर्द॒शभि॒: काम्यं॒ मधु॑ ॥

    स्वर सहित पद पाठ

    सा॒कम् । व॒द॒न्ति॒ । ब॒हवः॑ । म॒नी॒षिणः॑ । इन्द्र॑स्य । सोम॑म् । ज॒ठरे॑ । यत् । आ॒ऽदु॒हुः । यदि॑ । मृ॒जन्ति॑ । सुऽग॑भस्तयः । नरः॑ । सऽनी॑ळाभिः । द॒सऽभिः॑ । काम्य॑म् । मधु॑ ॥


    स्वर रहित मन्त्र

    साकं वदन्ति बहवो मनीषिण इन्द्रस्य सोमं जठरे यदादुहुः । यदी मृजन्ति सुगभस्तयो नर: सनीळाभिर्दशभि: काम्यं मधु ॥

    स्वर रहित पद पाठ

    साकम् । वदन्ति । बहवः । मनीषिणः । इन्द्रस्य । सोमम् । जठरे । यत् । आऽदुहुः । यदि । मृजन्ति । सुऽगभस्तयः । नरः । सऽनीळाभिः । दसऽभिः । काम्यम् । मधु ॥ ९.७२.२

    ऋग्वेद - मण्डल » 9; सूक्त » 72; मन्त्र » 2
    अष्टक » 7; अध्याय » 2; वर्ग » 27; मन्त्र » 2

    भावार्थ -
    (यदि) जब (सुगभस्तयः नरः) उत्तम बाहुओं वाले, बलवान्, वीर्यवान्, तेजस्वी नेता पुरुष (स-नीडाभिः) एक ही देश में रहने वाली (दशभिः) दशों दिशाओं की प्रजाओं सहित (सोमं मृजन्ति) उत्तम शासक का अभिषेक करते हैं और (इन्द्रस्य जठरे) उस ऐश्वर्यवान् शत्रुनाशक के पेट में (काम्यं मधु दुदुहुः) कामना योग्य मधुपर्क प्रदान करते हैं वा, उस ऐश्वर्यवान् के शासन में कामना योग्य बल देते हैं तब (वहवः मनीषिणः) बहुत से मननशील विद्वान् पुरुष (साकं वदन्ति) एक साथ भाषण करते हैं, उसका गुणवर्णन और स्तुति करते हैं।

    ऋषि | देवता | छन्द | स्वर - हरिमन्त ऋषिः॥ पवमानः सोमो देवता॥ छन्द:-१—३, ६, ७ निचृज्जगती। ४, ८ जगती। ५ विराड् जगती। ९ पादनिचृज्जगती॥ नवर्चं सूक्तम्॥

    इस भाष्य को एडिट करें
    Top