अथर्ववेद - काण्ड 3/ सूक्त 2/ मन्त्र 5
सूक्त - अथर्वा
देवता - द्यौः
छन्दः - त्रिष्टुप्
सूक्तम् - शत्रु सेनासंमोहन सूक्त
अ॒मीषां॑ चि॒त्तानि॑ प्रतिमो॒हय॑न्ती गृहा॒णाङ्गा॑न्यप्वे॒ परे॑हि। अ॒भि प्रेहि॒ निर्द॑ह हृ॒त्सु शोकै॒र्ग्राह्या॒मित्रां॒स्तम॑सा विध्य॒ शत्रू॑न् ॥
स्वर सहित पद पाठअ॒मीषा॑म् । चि॒त्तानि॑ । प्र॒ति॒ऽमो॒हय॑न्ती । गृ॒हा॒ण । अङ्गा॑नि । अ॒प्वे॒ । परा॑ । इ॒हि॒ । अभि । प्र । इ॒हि॒ । नि: । द॒ह॒ । हृ॒त्ऽसु । शोकै॑: । ग्राह्या॑ । अ॒मित्रा॑न् । तम॑सा । वि॒ध्य॒ । शत्रू॑न् ॥२.५॥
स्वर रहित मन्त्र
अमीषां चित्तानि प्रतिमोहयन्ती गृहाणाङ्गान्यप्वे परेहि। अभि प्रेहि निर्दह हृत्सु शोकैर्ग्राह्यामित्रांस्तमसा विध्य शत्रून् ॥
स्वर रहित पद पाठअमीषाम् । चित्तानि । प्रतिऽमोहयन्ती । गृहाण । अङ्गानि । अप्वे । परा । इहि । अभि । प्र । इहि । नि: । दह । हृत्ऽसु । शोकै: । ग्राह्या । अमित्रान् । तमसा । विध्य । शत्रून् ॥२.५॥
अथर्ववेद - काण्ड » 3; सूक्त » 2; मन्त्र » 5
विषय - शत्रु सेना के प्रति सेनापति के कर्तव्य ।
भावार्थ -
हे (अप्वे) व्याधि और भय ! पापवृत्ते ! (अमीषां) इन शत्रुओं के (चित्तानि) चित्तों को (प्रतिमोहयन्ती) मुग्ध, व्याकुल करती हुईं इनके (अंगानि) शरीरों को (गृहाण) जा पकड़। (परा इहि) हमारे यहां से परे चली जा और (अमित्रान्) शत्रुओं को (अभि प्रेहि) प्राप्त हो और उनको (शोकैः) शोकों द्वारा (निर्दह) भस्म कर डाल, (ग्राह्या) निरुद्यम वृत्ति से और (तमसा) अन्धकार से (शत्रून्) शत्रुओं को (विध्य) वेध डाल, विनाश कर ।
टिप्पणी -
(प्र०) ‘अभीषां चित्तं प्रतिलोभयन्ती’ (च०) ‘अन्धेनामित्रास्तमसा सचन्ताम्’ इति ऋ०।
अपवाययति अपगमयति मुखं प्राणांश्चेति अप्वा, पापदेवता । भयजनितातीसाराव्यो व्याधयोऽन्वाः इति वेबरः। यथा चाह व्यासो महाभारते भीष्मपर्वणि ‘श्रुत्वा तु निनदं योधाः शकृन्मूत्र प्रसुस्त्रुवुः’ । भी०प० ०१। १ १८॥
ऋषि | देवता | छन्द | स्वर - अथर्वा ऋषिः । सेनासंमोहनम् । अग्न्यादयो बहवो देवताः । १, ५, ६ त्रिष्टुभः। २-४ अनुष्टुभौ। षडृचं सूक्तम् ।
इस भाष्य को एडिट करें