अथर्ववेद - काण्ड 3/ सूक्त 26/ मन्त्र 4
सूक्त - अथर्वा
देवता - उदीचीदिक् सवाताः प्रविध्यन्तः
छन्दः - भुरिक्त्रिष्टुप्
सूक्तम् - दिक्षु आत्मारक्षा सूक्त
ये॒स्यां स्थोदी॑च्यां दि॒शि प्र॒विध्य॑न्तो॒ नाम॑ दे॒वास्तेषां॑ वो॒ वात॒ इष॑वः। ते नो॑ मृडत॒ ते नोऽधि॑ ब्रूत॒ तेभ्यो॑ वो॒ नम॒स्तेभ्यो॑ वः॒ स्वाहा॑ ॥
स्वर सहित पद पाठये । अ॒स्याम् । स्थ । उदी॑च्याम् । दि॒शि । प्र॒ऽविध्य॑न्त: । नाम॑ । दे॒वा: । तेषा॑म् । व॒: । वात॑: । इष॑व: । ते । न॒: । मृ॒ड॒त॒ । ते । न॒: । अधि॑ । ब्रू॒त॒ । तेभ्य॑: । व॒: । नम॑: । तेभ्य॑: । व॒: । स्वाहा॑ ॥२६.४॥
स्वर रहित मन्त्र
येस्यां स्थोदीच्यां दिशि प्रविध्यन्तो नाम देवास्तेषां वो वात इषवः। ते नो मृडत ते नोऽधि ब्रूत तेभ्यो वो नमस्तेभ्यो वः स्वाहा ॥
स्वर रहित पद पाठये । अस्याम् । स्थ । उदीच्याम् । दिशि । प्रऽविध्यन्त: । नाम । देवा: । तेषाम् । व: । वात: । इषव: । ते । न: । मृडत । ते । न: । अधि । ब्रूत । तेभ्य: । व: । नम: । तेभ्य: । व: । स्वाहा ॥२६.४॥
अथर्ववेद - काण्ड » 3; सूक्त » 26; मन्त्र » 4
विषय - प्रबल शक्तिधारी देव के छः रूप ।
भावार्थ -
और (ये देवाः) जो देव (अस्याम् उदीच्याम् दिशि) इस उत्तर दिशा में या बायीं ओर हैं वे (प्रविध्यन्तः नाम) प्रबलता से ताड़ने वाले हैं (तेषां वः) उन आपका (वातः इषवः) वात, प्रचण्ड वायु के झंकोरे और प्राण ही बाण हैं । वे आप हमें सुखी करें और हमें उपदेश करें, आपका हम आदर करते और स्वागत करते हैं ।
टिप्पणी -
missing
ऋषि | देवता | छन्द | स्वर - अथर्वा ऋषिः। रुद्रः अग्न्यादयो वा बहवो देवताः। १–६ पञ्चपदा विपरीतपादलक्ष्म्या त्रिष्टुप। १ त्रिष्टुप्। २, ५, ६ जगती। ३, ४ भुरिग्। षडृर्चं सूक्तम्॥
इस भाष्य को एडिट करें