ऋग्वेद - मण्डल 10/ सूक्त 1/ मन्त्र 7
आ हि द्यावा॑पृथि॒वी अ॑ग्न उ॒भे सदा॑ पु॒त्रो न मा॒तरा॑ त॒तन्थ॑ । प्र या॒ह्यच्छो॑श॒तो य॑वि॒ष्ठाथा व॑ह सहस्ये॒ह दे॒वान् ॥
स्वर सहित पद पाठआ । हि । द्यावा॑पृथि॒वी इति॑ । अ॒ग्ने॒ । उ॒भे इति॑ । सदा॑ । पु॒त्रः । न । मा॒तरा॑ । त॒तन्थ॑ । प्र । या॒हि॒ । अच्छ॑ । उ॒श॒तः । य॒वि॒ष्ठ॒ । अथ॑ । आ । व॒ह॒ । स॒ह॒स्य॒ । इ॒ह । दे॒वान् ॥
स्वर रहित मन्त्र
आ हि द्यावापृथिवी अग्न उभे सदा पुत्रो न मातरा ततन्थ । प्र याह्यच्छोशतो यविष्ठाथा वह सहस्येह देवान् ॥
स्वर रहित पद पाठआ । हि । द्यावापृथिवी इति । अग्ने । उभे इति । सदा । पुत्रः । न । मातरा । ततन्थ । प्र । याहि । अच्छ । उशतः । यविष्ठ । अथ । आ । वह । सहस्य । इह । देवान् ॥ १०.१.७
ऋग्वेद - मण्डल » 10; सूक्त » 1; मन्त्र » 7
अष्टक » 7; अध्याय » 5; वर्ग » 29; मन्त्र » 7
अष्टक » 7; अध्याय » 5; वर्ग » 29; मन्त्र » 7
पदार्थः -
(यविष्ठ सहस्य-अग्ने) हे युवतम ! लोकत्रयेण सहातिशयेन यौति मिश्रयति संयुक्तो भवति यः स यविष्ठः, तथाभूत ! दिवि सूर्यरूपेण, अन्तरिक्षे च विद्युद्रूपेण वर्त्तमान सहस्य ! सहसि सामर्थ्ये-आकर्षणे साधुर्यस्तत्सम्बुद्धौ सहस्य “सहसा सामर्थ्येनाकर्षणेन वा” [ऋ० १।५१।१। दयानन्दः] पृथिव्यां सर्वकार्याणामग्रणीभूतस्तथाभूत त्वमग्ने बृहन्नग्ने ! (उभे द्यावापृथिवी) उभौ द्युलोकपृथिवीलोकौ (सदा हि-आततन्थ) सर्वदैव सूर्यरूपः सन् स्वप्रकाशेन प्रकाशयति (पुत्रः-न मातरा) मातापितरौ यथा पुत्रः स्वगुणाचरणैः प्रकाशयति-प्रसिद्धौ करोति (उशतः अच्छ प्रयाहि) त्वां कामयमानानस्मान् साधुरूपेण प्राप्तो भवसि, अतः (इह देवान्-आवह) अत्र स्वरश्मीन् “उदिता देवाः सूर्यस्य” [ऋ०] “आदित्यस्य वै रश्मयो देवाः [तै० सं० ६।४।५।५। ] प्रापय प्रापयसि वा ॥७॥