Loading...
ऋग्वेद मण्डल - 10 के सूक्त 2 के मन्त्र
मण्डल के आधार पर मन्त्र चुनें
अष्टक के आधार पर मन्त्र चुनें
  • ऋग्वेद का मुख्य पृष्ठ
  • ऋग्वेद - मण्डल 10/ सूक्त 2/ मन्त्र 1
    ऋषिः - त्रितः देवता - अग्निः छन्दः - पादनिचृत्त्रिष्टुप् स्वरः - धैवतः

    पि॒प्री॒हि दे॒वाँ उ॑श॒तो य॑विष्ठ वि॒द्वाँ ऋ॒तूँॠ॑तुपते यजे॒ह । ये दैव्या॑ ऋ॒त्विज॒स्तेभि॑रग्ने॒ त्वं होतॄ॑णाम॒स्याय॑जिष्ठः ॥

    स्वर सहित पद पाठ

    पि॒प्री॒हि । दे॒वान् । उ॒श॒तः । य॒वि॒ष्ठ॒ । वि॒द्वान् । ऋ॒तून् । ऋ॒तु॒ऽप॒ते॒ । य॒ज॒ । इ॒ह । ये । दैव्याः॑ । ऋ॒त्विजः॑ । तेभिः॑ । अ॒ग्ने॒ । त्वम् । होतॄ॑णाम् । अ॒सि॒ । आऽय॑जिष्ठः ॥


    स्वर रहित मन्त्र

    पिप्रीहि देवाँ उशतो यविष्ठ विद्वाँ ऋतूँॠतुपते यजेह । ये दैव्या ऋत्विजस्तेभिरग्ने त्वं होतॄणामस्यायजिष्ठः ॥

    स्वर रहित पद पाठ

    पिप्रीहि । देवान् । उशतः । यविष्ठ । विद्वान् । ऋतून् । ऋतुऽपते । यज । इह । ये । दैव्याः । ऋत्विजः । तेभिः । अग्ने । त्वम् । होतॄणाम् । असि । आऽयजिष्ठः ॥ १०.२.१

    ऋग्वेद - मण्डल » 10; सूक्त » 2; मन्त्र » 1
    अष्टक » 7; अध्याय » 5; वर्ग » 30; मन्त्र » 1

    पदार्थः -
    (यविष्ठ) हे युवतम ! लोकत्रयेण सह मिश्रणधर्मन् ! (ऋतुपते) हे ऋतूनां स्वामिन् ! पालक ! वा सूर्य ! “ऋतुपाः-य ऋतुं पाति रक्षति स सूर्यः” [ऋ० ३।४६।२। दयानन्दः] (उशतः-देवान्) स्वां कामयमानान् ज्योतिर्विदो विदुषः (पिप्रीहि) स्वविज्ञानेन प्रीणय (विद्वान्) वेदयन्-ज्ञापयन् ज्ञापनायेत्यर्थः “लक्षणहेत्वोः क्रियायाः” [अष्टा० ३।२।१३६] इति हेत्वर्थे शतृप्रत्ययः (इह-ऋतून् यज) अत्र संसारे ऋतून् वसन्तादीन्, कालान्-कालविभागान् वा “ऋतुभिः कालैः” [निरु० ८।४] सङ्गमय “यज-सङ्गमय” [ऋ० १।१४।११। दयानन्दः] (ये दैव्याः-ऋत्विजः) ये खलु मन्त्राः “छन्दांसि वा ऋत्विजः” [मै० ३।९।८] अथवा दिशः “सप्तर्त्विजः सूर्यः सप्त दिशो नाना सूर्याः [तै० आ० १।७।४] (तेभिः) तैः सह (अग्ने) हे बृहन्-अग्ने सूर्य ! (त्वं होतॄणाम्-आयजिष्ठः-असि) ज्ञानग्रहीतॄणां त्वं समन्तात् सङ्गन्तृतमोऽसि॥१॥

    इस भाष्य को एडिट करें
    Top