ऋग्वेद - मण्डल 10/ सूक्त 112/ मन्त्र 2
ऋषिः - नभःप्रभेदनो वैरूपः
देवता - इन्द्र:
छन्दः - निचृत्त्रिष्टुप्
स्वरः - धैवतः
यस्ते॒ रथो॒ मन॑सो॒ जवी॑या॒नेन्द्र॒ तेन॑ सोम॒पेया॑य याहि । तूय॒मा ते॒ हर॑य॒: प्र द्र॑वन्तु॒ येभि॒र्यासि॒ वृष॑भि॒र्मन्द॑मानः ॥
स्वर सहित पद पाठयः । ते॒ । रथः॑ । मन॑सः । जवी॑यान् । आ॒ । इ॒न्द्र॒ । तेन॑ । सो॒म॒ऽपेया॑य । या॒हि॒ । तूय॑म् । आ । ते॒ । हर॑यः । प्र । द्र॒व॒न्तु॒ । येभिः॑ । यासि॑ । वृष॑ऽभिः । मन्द॑मानः ॥
स्वर रहित मन्त्र
यस्ते रथो मनसो जवीयानेन्द्र तेन सोमपेयाय याहि । तूयमा ते हरय: प्र द्रवन्तु येभिर्यासि वृषभिर्मन्दमानः ॥
स्वर रहित पद पाठयः । ते । रथः । मनसः । जवीयान् । आ । इन्द्र । तेन । सोमऽपेयाय । याहि । तूयम् । आ । ते । हरयः । प्र । द्रवन्तु । येभिः । यासि । वृषऽभिः । मन्दमानः ॥ १०.११२.२
ऋग्वेद - मण्डल » 10; सूक्त » 112; मन्त्र » 2
अष्टक » 8; अध्याय » 6; वर्ग » 12; मन्त्र » 2
अष्टक » 8; अध्याय » 6; वर्ग » 12; मन्त्र » 2
पदार्थः -
(इन्द्र) हे ऐश्वर्यवन् परमात्मन् ! (ते रथः-मनसः-जवीयान्) तव रमणधर्मः-उपासकं रमणशीलगुणो मनसोऽपि वेगवान्-अस्ति, क्षणात्पूर्वमपि खलूपासकं प्रति गच्छति (तेन सोमपेयाय तूयम्-आ याहि) तेन सह उपासनारसस्य पानायाङ्गीकरणाय शीघ्रमागच्छ (ते हरयः-प्र द्रवन्तु) तव स्तोतारो मनुष्याः “हरयः-मनुष्यनाम” [निघ० २।३] स्तुतिं कुर्वन्ति (येभिः-वृषभिः-मन्दमानः-आ यासि) यैः स्तुतिवर्षकैः स्तूयमानः “मदति अर्चतिकर्मा” [निघ० ३।१४] “मदिस्तुतिमोद…” [भ्वादि०] तेषां हृदये प्राप्तो भवसि ॥२॥