ऋग्वेद - मण्डल 10/ सूक्त 112/ मन्त्र 3
ऋषिः - नभःप्रभेदनो वैरूपः
देवता - इन्द्र:
छन्दः - विराट्त्रिष्टुप्
स्वरः - धैवतः
हरि॑त्वता॒ वर्च॑सा॒ सूर्य॑स्य॒ श्रेष्ठै॑ रू॒पैस्त॒न्वं॑ स्पर्शयस्व । अ॒स्माभि॑रिन्द्र॒ सखि॑भिर्हुवा॒नः स॑ध्रीची॒नो मा॑दयस्वा नि॒षद्य॑ ॥
स्वर सहित पद पाठहरि॑त्वता । वर्च॑सा । सूर्य॑स्य । श्रेष्ठैः॑ । रू॒पैः । त॒न्व॑म् । स्प॒र्श॒य॒स्व॒ । अ॒स्माभिः॑ । इ॒न्द्र॒ । सखि॑ऽभिः । हु॒वा॒नः । स॒ध्री॒ची॒नः । मा॒द॒य॒स्व॒ । नि॒ऽसद्य॑ ॥
स्वर रहित मन्त्र
हरित्वता वर्चसा सूर्यस्य श्रेष्ठै रूपैस्तन्वं स्पर्शयस्व । अस्माभिरिन्द्र सखिभिर्हुवानः सध्रीचीनो मादयस्वा निषद्य ॥
स्वर रहित पद पाठहरित्वता । वर्चसा । सूर्यस्य । श्रेष्ठैः । रूपैः । तन्वम् । स्पर्शयस्व । अस्माभिः । इन्द्र । सखिऽभिः । हुवानः । सध्रीचीनः । मादयस्व । निऽसद्य ॥ १०.११२.३
ऋग्वेद - मण्डल » 10; सूक्त » 112; मन्त्र » 3
अष्टक » 8; अध्याय » 6; वर्ग » 12; मन्त्र » 3
अष्टक » 8; अध्याय » 6; वर्ग » 12; मन्त्र » 3
पदार्थः -
(इन्द्र) हे ऐश्वर्यवन् परमात्मन् ! (सूर्यस्य हरित्वता वर्चसा) सूर्यस्य हरित्सु यद्वर्चो विद्यते तेन वर्चसेव, ‘अत्र लुप्तोपमालङ्कारः’ (श्रेष्ठैः-रूपैः-तन्वं स्पर्शयस्व) श्रेष्ठै रूपैः-आत्मानम् “आत्मा वै तनूः” [श० ६।७।२।६] (स्पर्शयस्व) सम्पृक्तं कुरु (अस्माभिः सखिभिः-हुवानः) वयं तव सखायस्तैरस्माभिः सखिभिराहूयमानस्त्वम् (निषद्य) अस्माकं हृदयेषु निविश्य (सध्रीचीनः-मादयस्व) सह सङ्गच्छमानोऽस्मान् प्रसादय ॥३॥