ऋग्वेद - मण्डल 10/ सूक्त 112/ मन्त्र 4
ऋषिः - नभःप्रभेदनो वैरूपः
देवता - इन्द्र:
छन्दः - निचृत्त्रिष्टुप्
स्वरः - धैवतः
यस्य॒ त्यत्ते॑ महि॒मानं॒ मदे॑ष्वि॒मे म॒ही रोद॑सी॒ नावि॑विक्ताम् । तदोक॒ आ हरि॑भिरिन्द्र यु॒क्तैः प्रि॒येभि॑र्याहि प्रि॒यमन्न॒मच्छ॑ ॥
स्वर सहित पद पाठयस्य॑ । त्यत् । ते॒ । म॒हि॒मान॑म् । मदे॑षु । इ॒मे इति॑ । म॒ही इति॑ । रोद॑सी॒ इति॑ । न । अवि॑विक्ताम् । तत् । ओकः॑ । आ । हरि॑ऽभिः । इ॒न्द्र॒ । यु॒क्तैः । प्रि॒येभिः॑ । या॒हि॒ । प्रि॒यम् । अन्न॑म् । अच्छ॑ ॥
स्वर रहित मन्त्र
यस्य त्यत्ते महिमानं मदेष्विमे मही रोदसी नाविविक्ताम् । तदोक आ हरिभिरिन्द्र युक्तैः प्रियेभिर्याहि प्रियमन्नमच्छ ॥
स्वर रहित पद पाठयस्य । त्यत् । ते । महिमानम् । मदेषु । इमे इति । मही इति । रोदसी इति । न । अविविक्ताम् । तत् । ओकः । आ । हरिऽभिः । इन्द्र । युक्तैः । प्रियेभिः । याहि । प्रियम् । अन्नम् । अच्छ ॥ १०.११२.४
ऋग्वेद - मण्डल » 10; सूक्त » 112; मन्त्र » 4
अष्टक » 8; अध्याय » 6; वर्ग » 12; मन्त्र » 4
अष्टक » 8; अध्याय » 6; वर्ग » 12; मन्त्र » 4
पदार्थः -
(इन्द्र) हे परमात्मन् ! (यस्य ते) यस्य तव (मदेषु) बहुविधहर्षेषु (त्यत्-महिमानम्) प्रादुर्भूतं तम् ‘लिङ्गव्यत्ययः’ प्रतापम् “महिमा प्रतापः” [यजु० २३।१५ दयानन्दः] (इमे मही रोदसी) एते महत्यौ रोधनशीले खगोले परिधिभूते द्यावापृथिव्यौ (न-अविविक्ताम्) न रिक्तीकर्त्तुं यद्वा न त्वत्तः पृथक् कर्त्तुं शक्नुतः (युक्तैः) योगयुक्तैः (प्रियेभिः) प्रियैः (हरिभिः) उपासकमनुष्यैः “हरयः-मनुष्यनाम” [निघ० २।३] उपासितः (प्रियम्-अन्नम्-अच्छ) प्रियमुपासनारूपमन्नं दानमभिलक्ष्य (तत्-ओकः) तेषामुपासकानां योगयुक्तानां हृदयस्थानं प्राप्नुहि ॥४॥