Loading...
ऋग्वेद मण्डल - 10 के सूक्त 112 के मन्त्र
मण्डल के आधार पर मन्त्र चुनें
अष्टक के आधार पर मन्त्र चुनें
  • ऋग्वेद का मुख्य पृष्ठ
  • ऋग्वेद - मण्डल 10/ सूक्त 112/ मन्त्र 5
    ऋषिः - नभःप्रभेदनो वैरूपः देवता - इन्द्र: छन्दः - निचृत्त्रिष्टुप् स्वरः - धैवतः

    यस्य॒ शश्व॑त्पपि॒वाँ इ॑न्द्र॒ शत्रू॑ननानुकृ॒त्या रण्या॑ च॒कर्थ॑ । स ते॒ पुरं॑धिं॒ तवि॑षीमियर्ति॒ स ते॒ मदा॑य सु॒त इ॑न्द्र॒ सोम॑: ॥

    स्वर सहित पद पाठ

    यस्य॑ । शश्व॑त् । प॒पि॒ऽवान् । इ॒न्द्र॒ । शत्रू॑न् । अ॒न॒नु॒ऽकृ॒त्या । रण्या॑ । च॒कर्थ॑ । सः । ते॒ । पुर॑म्ऽधिम् । तवि॑षीम् । इ॒य॒र्ति॒ । सः । ते॒ । मदा॑य । सु॒तः । इ॒न्द्र॒ । सोमः॑ ॥


    स्वर रहित मन्त्र

    यस्य शश्वत्पपिवाँ इन्द्र शत्रूननानुकृत्या रण्या चकर्थ । स ते पुरंधिं तविषीमियर्ति स ते मदाय सुत इन्द्र सोम: ॥

    स्वर रहित पद पाठ

    यस्य । शश्वत् । पपिऽवान् । इन्द्र । शत्रून् । अननुऽकृत्या । रण्या । चकर्थ । सः । ते । पुरम्ऽधिम् । तविषीम् । इयर्ति । सः । ते । मदाय । सुतः । इन्द्र । सोमः ॥ १०.११२.५

    ऋग्वेद - मण्डल » 10; सूक्त » 112; मन्त्र » 5
    अष्टक » 8; अध्याय » 6; वर्ग » 12; मन्त्र » 5

    पदार्थः -
    (इन्द्र) हे ऐश्वर्यवन् परमात्मन् ! (यस्य शश्वत् पपिवान्) यस्योपासकस्य निरन्तरम् “शश्वत्-निरन्तरम्” [ऋ० १।११६।६ दयानन्दः] उपासनारसं पिबसि, गृह्णासि, स्वीकरोषि तस्येति शेषः (शत्रून्) कामादिशत्रून् (अनानुकृत्या रण्या चकर्थ) अननुकरणयोग्ययाऽतुलया रणे सङ्ग्रामे साधुभूतया “रणः सङ्ग्रामनाम” [निघ० २।१७] अस्त्रशक्त्येव स्वशक्त्या हंसि “कृञ् हिंसायाम्” [क्र्यादि०] (सः) स उपासकः (ते तविषीं पुरन्धिम्-इयर्ति) तुल्यं बलवतीं स्तुतिम् “पुरन्ध्या स्तुत्या” [निरु० १२।३०] प्रेरयति (इन्द्र) हे परमात्मन् ! (सः ते मदाय सोमः सुतः) सोऽभीष्ट उपासनारसो निष्पन्नस्तव हर्षायास्तु ॥५॥

    इस भाष्य को एडिट करें
    Top