Loading...
ऋग्वेद मण्डल - 10 के सूक्त 112 के मन्त्र
मण्डल के आधार पर मन्त्र चुनें
अष्टक के आधार पर मन्त्र चुनें
  • ऋग्वेद का मुख्य पृष्ठ
  • ऋग्वेद - मण्डल 10/ सूक्त 112/ मन्त्र 6
    ऋषिः - नभःप्रभेदनो वैरूपः देवता - इन्द्र: छन्दः - निचृत्त्रिष्टुप् स्वरः - धैवतः

    इ॒दं ते॒ पात्रं॒ सन॑वित्तमिन्द्र॒ पिबा॒ सोम॑मे॒ना श॑तक्रतो । पू॒र्ण आ॑हा॒वो म॑दि॒रस्य॒ मध्वो॒ यं विश्व॒ इद॑भि॒हर्य॑न्ति दे॒वाः ॥

    स्वर सहित पद पाठ

    इ॒दम् । ते॒ । पात्र॑म् । सन॑ऽवित्तम् । इ॒न्द्र॒ । पिब॑ । सोम॑म् । ए॒ना । श॒त॒क्र॒तो॒ इति॑ शतऽक्रतो । पू॒र्णः । आ॒ऽहा॒वः । म॒दि॒रस्य॑ । मध्वः॑ । यम् । विश्वे॑ । इत् । अ॒भि॒ऽहर्य॑न्ति । दे॒वाः ॥


    स्वर रहित मन्त्र

    इदं ते पात्रं सनवित्तमिन्द्र पिबा सोममेना शतक्रतो । पूर्ण आहावो मदिरस्य मध्वो यं विश्व इदभिहर्यन्ति देवाः ॥

    स्वर रहित पद पाठ

    इदम् । ते । पात्रम् । सनऽवित्तम् । इन्द्र । पिब । सोमम् । एना । शतक्रतो इति शतऽक्रतो । पूर्णः । आऽहावः । मदिरस्य । मध्वः । यम् । विश्वे । इत् । अभिऽहर्यन्ति । देवाः ॥ १०.११२.६

    ऋग्वेद - मण्डल » 10; सूक्त » 112; मन्त्र » 6
    अष्टक » 8; अध्याय » 6; वर्ग » 13; मन्त्र » 1

    पदार्थः -
    (इन्द्र) हे ऐश्वर्यवन् परमात्मन् ! (ते-इदं-पात्रं सनवित्तम्) तुभ्यमिदं पानस्थानं हृदयं सनात् सदातनात् प्राप्तमस्ति (शतक्रतो पिब एना सोमम्) हे बहुकृपाकर्मवन् दयाबुद्धिमन् ! एतेनोपासनारसं पिब गृहाण स्वीकुरु (मदिरस्य-मध्वः पूर्णः-आहावः) हर्षकरस्य मधुरस्य पूर्णः पानाशयोऽस्ति (यं विश्वे देवाः-इत्-अभिहर्यन्ति) यं सर्वे देवा-उपासका हि तव पानाय दातुं कामयन्ते ॥६॥

    इस भाष्य को एडिट करें
    Top