Loading...
ऋग्वेद मण्डल - 10 के सूक्त 126 के मन्त्र
मण्डल के आधार पर मन्त्र चुनें
अष्टक के आधार पर मन्त्र चुनें
  • ऋग्वेद का मुख्य पृष्ठ
  • ऋग्वेद - मण्डल 10/ सूक्त 126/ मन्त्र 7
    ऋषिः - कुल्मलबर्हिषः शैलूषिः, अंहोभुग्वा वामदेव्यः देवता - विश्वेदेवा: छन्दः - बृहती स्वरः - मध्यमः

    शु॒नम॒स्मभ्य॑मू॒तये॒ वरु॑णो मि॒त्रो अ॑र्य॒मा । शर्म॑ यच्छन्तु स॒प्रथ॑ आदि॒त्यासो॒ यदीम॑हे॒ अति॒ द्विष॑: ॥

    स्वर सहित पद पाठ

    शु॒नम् । अ॒स्मभ्य॑म् । ऊ॒तये॑ । वरु॑णः । मि॒त्रः । अ॒र्य॒मा । शर्म॑ । य॒च्छ॒न्तु॒ । स॒ऽप्रथः॑ । आ॒दि॒त्यासः॑ । यत् । ईम॑हे । अति॑ । द्विषः॑ ॥


    स्वर रहित मन्त्र

    शुनमस्मभ्यमूतये वरुणो मित्रो अर्यमा । शर्म यच्छन्तु सप्रथ आदित्यासो यदीमहे अति द्विष: ॥

    स्वर रहित पद पाठ

    शुनम् । अस्मभ्यम् । ऊतये । वरुणः । मित्रः । अर्यमा । शर्म । यच्छन्तु । सऽप्रथः । आदित्यासः । यत् । ईमहे । अति । द्विषः ॥ १०.१२६.७

    ऋग्वेद - मण्डल » 10; सूक्त » 126; मन्त्र » 7
    अष्टक » 8; अध्याय » 7; वर्ग » 13; मन्त्र » 7

    पदार्थः -
    (वरुणः-मित्रः-अर्यमा-अस्मभ्यम्-ऊतये शुनं यच्छतु) वरुणः-मित्रः-अर्यमा, तेऽस्मभ्यं रक्षायै सुखं प्रयच्छन्तु (आदित्यासः-यत्-ईमहे सप्रथः-शर्म यच्छन्तु) एते स्वीकर्त्तारो यदा वयमेतान् प्रार्थयामहे तदैव सविस्तृतं शरणञ्च प्रयच्छन्तु पुनश्च (द्विषः-अति) द्वेष्टॄन् विरोधिनश्चातिक्रम्य स्थिता भवेम ॥७॥

    इस भाष्य को एडिट करें
    Top