ऋग्वेद - मण्डल 10/ सूक्त 126/ मन्त्र 8
ऋषिः - कुल्मलबर्हिषः शैलूषिः, अंहोभुग्वा वामदेव्यः
देवता - विश्वेदेवा:
छन्दः - आर्चीस्वराट्त्रिष्टुप्
स्वरः - धैवतः
यथा॑ ह॒ त्यद्व॑सवो गौ॒र्यं॑ चित्प॒दि षि॒ताममु॑ञ्चता यजत्राः । ए॒वो ष्व१॒॑स्मन्मु॑ञ्चता॒ व्यंह॒: प्र ता॑र्यग्ने प्रत॒रं न॒ आयु॑: ॥
स्वर सहित पद पाठयथा॑ । ह॒ । त्यत् । व॒स॒वः॒ । गौ॒र्य॑म् । चि॒त् । प॒दि । सि॒ताम् । अमु॑ञ्चत । य॒ज॒त्राः॒ । ए॒वो इति॑ । सु । अ॒स्मत् । मु॒ञ्च॒त॒ । वि । अंहः॑ । प्र । ता॒रि॒ । अ॒ग्ने॒ । प्र॒ऽत॒रम् । नः॒ । आयुः॑ ॥
स्वर रहित मन्त्र
यथा ह त्यद्वसवो गौर्यं चित्पदि षिताममुञ्चता यजत्राः । एवो ष्व१स्मन्मुञ्चता व्यंह: प्र तार्यग्ने प्रतरं न आयु: ॥
स्वर रहित पद पाठयथा । ह । त्यत् । वसवः । गौर्यम् । चित् । पदि । सिताम् । अमुञ्चत । यजत्राः । एवो इति । सु । अस्मत् । मुञ्चत । वि । अंहः । प्र । तारि । अग्ने । प्रऽतरम् । नः । आयुः ॥ १०.१२६.८
ऋग्वेद - मण्डल » 10; सूक्त » 126; मन्त्र » 8
अष्टक » 8; अध्याय » 7; वर्ग » 13; मन्त्र » 8
अष्टक » 8; अध्याय » 7; वर्ग » 13; मन्त्र » 8
पदार्थः -
(वसवः-यजत्राः) हे शरीरे वासयितारस्तथा श्रेष्ठमार्गे सङ्गमयितारो यूयं वरुणादयः ! (शौर्यं चित् परि सिताम्-यथा अमुञ्चत) गौरीं सुन्दरीमपि गां वाचं वेदवाचं वा “गौरी वाङ्नाम” [निघ० १।११] पादे बद्धां चरणाय तत्स्वामिनः यद्वा वेदवाचं पदशश्छन्दोबद्धां प्रचाराय यथा विद्वांसो मुञ्चन्ति तथा यूयं मुञ्चतास्मान् (एव-उ सु-अस्मत् अंहः-वि मुञ्चत) एवं हि सुष्ठु खल्वस्मान् अस्मत् “सुपां सुलुक्…” [अष्टा० ७।१।३९] इति द्वितीयाया विभक्तेर्लुक् “अंहसः पापात्-बन्धनात्” अत्रापि पञ्चमीविभक्तेर्लुक्-छान्दसः, विमुक्तान् कुरुत (अग्ने नः-आयुः प्रतरं प्र तारि) हे अग्रणायक परमात्मन् ! अस्माकमायुर्जीवनं प्रकृष्टतरं प्रवर्धय ॥८॥