Loading...
ऋग्वेद मण्डल - 10 के सूक्त 132 के मन्त्र
मण्डल के आधार पर मन्त्र चुनें
अष्टक के आधार पर मन्त्र चुनें
  • ऋग्वेद का मुख्य पृष्ठ
  • ऋग्वेद - मण्डल 10/ सूक्त 132/ मन्त्र 7
    ऋषिः - शकपूतो नार्मेधः देवता - मित्रावरुणौ छन्दः - महासतोबृहती स्वरः - मध्यमः

    यु॒वं ह्य॑प्न॒राजा॒वसी॑दतं॒ तिष्ठ॒द्रथं॒ न धू॒र्षदं॑ वन॒र्षद॑म् । ता न॑: कणूक॒यन्ती॑र्नृ॒मेध॑स्तत्रे॒ अंह॑सः सु॒मेध॑स्तत्रे॒ अंह॑सः ॥

    स्वर सहित पद पाठ

    यु॒वम् । हि । अ॒प्न॒ऽराजौ॑ । असी॑दतम् । तिष्ठ॑त् । रथ॑म् । न । धूः॒ऽसद॑म् । व॒न॒ऽसद॑म् । ताः । नः॒ । क॒णू॒क॒ऽयन्तीः॑ । नृ॒ऽमेधः॑ । त॒त्रे॒ । अंह॑सः । सु॒ऽमेधः॑ । त॒त्रे॒ । अंह॑सः ॥


    स्वर रहित मन्त्र

    युवं ह्यप्नराजावसीदतं तिष्ठद्रथं न धूर्षदं वनर्षदम् । ता न: कणूकयन्तीर्नृमेधस्तत्रे अंहसः सुमेधस्तत्रे अंहसः ॥

    स्वर रहित पद पाठ

    युवम् । हि । अप्नऽराजौ । असीदतम् । तिष्ठत् । रथम् । न । धूःऽसदम् । वनऽसदम् । ताः । नः । कणूकऽयन्तीः । नृऽमेधः । तत्रे । अंहसः । सुऽमेधः । तत्रे । अंहसः ॥ १०.१३२.७

    ऋग्वेद - मण्डल » 10; सूक्त » 132; मन्त्र » 7
    अष्टक » 8; अध्याय » 7; वर्ग » 20; मन्त्र » 7

    पदार्थः -
    (युवं हि-अप्नराजौ) युवां हि कर्मणः प्रकाशयितारौ अध्यापकोपदेशकौ (असीदतम्) सीदतं (धूर्षदं रथं न) धुरिसदं रथमिव (वनर्षदम्) वननीयसदनम्-प्रवचनस्थानं (तिष्ठत्) तिष्ठतम् ‘एकवचनं व्यत्ययेन’ (ताः-नः कणूकयन्तीः) ताः प्रार्थयमानाः, अस्मान्मानवप्रजाः (नृमेधः) युवयोरेको नृणां मेधयिताऽध्यापकः (अंहसः-तत्रे) अज्ञानात् पापात् त्रायते ॥७॥

    इस भाष्य को एडिट करें
    Top