ऋग्वेद - मण्डल 10/ सूक्त 133/ मन्त्र 2
त्वं सिन्धूँ॒रवा॑सृजोऽध॒राचो॒ अह॒न्नहि॑म् । अ॒श॒त्रुरि॑न्द्र जज्ञिषे॒ विश्वं॑ पुष्यसि॒ वार्यं॒ तं त्वा॒ परि॑ ष्वजामहे॒ नभ॑न्तामन्य॒केषां॑ ज्या॒का अधि॒ धन्व॑सु ॥
स्वर सहित पद पाठत्वम् । सिन्धू॑न् । अव॑ । अ॒सृ॒जः॒ । अ॒ध॒राचः॑ । अह॑न् । अहि॑म् । अ॒श॒त्रुः । इ॒न्द्र॒ । ज॒ज्ञि॒षे॒ । विश्व॑म् । पु॒ष्य॒सि॒ । वार्य॑म् । तम् । त्वा॒ । परि॑ । स्व॒जा॒म॒हे॒ । नभ॑न्ताम् । अ॒न्य॒केषा॑म् । ज्या॒काः । अधि॑ । धन्व॑ऽसु ॥
स्वर रहित मन्त्र
त्वं सिन्धूँरवासृजोऽधराचो अहन्नहिम् । अशत्रुरिन्द्र जज्ञिषे विश्वं पुष्यसि वार्यं तं त्वा परि ष्वजामहे नभन्तामन्यकेषां ज्याका अधि धन्वसु ॥
स्वर रहित पद पाठत्वम् । सिन्धून् । अव । असृजः । अधराचः । अहन् । अहिम् । अशत्रुः । इन्द्र । जज्ञिषे । विश्वम् । पुष्यसि । वार्यम् । तम् । त्वा । परि । स्वजामहे । नभन्ताम् । अन्यकेषाम् । ज्याकाः । अधि । धन्वऽसु ॥ १०.१३३.२
ऋग्वेद - मण्डल » 10; सूक्त » 133; मन्त्र » 2
अष्टक » 8; अध्याय » 7; वर्ग » 21; मन्त्र » 2
अष्टक » 8; अध्याय » 7; वर्ग » 21; मन्त्र » 2
पदार्थः -
(त्वम्-इन्द्र-अहिम्-अहन्) त्वं हे राजन् ! आहन्तारं शत्रुं हंसि “अहिर्निर्ह्रसितोपसर्गः” [निरु० २।१७] (अधराचः, सिन्धून्-अव असृजः) अधोमुखान् स्यन्दमानान् शत्रून् “सिन्धवः समुद्रनदीवत् कठिनावगाहाः शत्रवः” [ऋ० १।६१।११ दयानन्दः] निम्नान् कुरु (अशत्रुः-जज्ञिषे) त्वं शत्रुरहितो जातः (विश्वं वार्यं पुष्यसि) सर्ववरणीयं वस्तु पोषयसि रक्षसि (तं त्वा परि स्वजामहे) तं त्वां परितः स्निह्याम (नभन्ताम् अन्यकेषाम्) पूर्ववत् ॥२॥