ऋग्वेद - मण्डल 10/ सूक्त 134/ मन्त्र 5
ऋषिः - मान्धाता यौवनाश्वः
देवता - इन्द्र:
छन्दः - महापङ्क्ति
स्वरः - पञ्चमः
अव॒ स्वेदा॑ इवा॒भितो॒ विष्व॑क्पतन्तु दि॒द्यव॑: । दूर्वा॑या इव॒ तन्त॑वो॒ व्य१॒॑स्मदे॑तु दुर्म॒तिर्दे॒वी जनि॑त्र्यजीजनद्भ॒द्रा जनि॑त्र्यजीजनत् ॥
स्वर सहित पद पाठअव॑ । स्वेदाः॑ऽइव । अ॒भितः॑ । विष्व॑क् । प॒त॒न्तु॒ । दि॒द्यवः॑ । दूर्वा॑याःऽइव । तन्त॑वः । वि । अ॒स्मत् । ए॒तु॒ । दुः॒ऽम॒तिः । दे॒वी । जनि॑त्री । अ॒जी॒ज॒न॒त् । भ॒द्रा । जनि॑त्री । अ॒जी॒ज॒न॒त् ॥
स्वर रहित मन्त्र
अव स्वेदा इवाभितो विष्वक्पतन्तु दिद्यव: । दूर्वाया इव तन्तवो व्य१स्मदेतु दुर्मतिर्देवी जनित्र्यजीजनद्भद्रा जनित्र्यजीजनत् ॥
स्वर रहित पद पाठअव । स्वेदाःऽइव । अभितः । विष्वक् । पतन्तु । दिद्यवः । दूर्वायाःऽइव । तन्तवः । वि । अस्मत् । एतु । दुःऽमतिः । देवी । जनित्री । अजीजनत् । भद्रा । जनित्री । अजीजनत् ॥ १०.१३४.५
ऋग्वेद - मण्डल » 10; सूक्त » 134; मन्त्र » 5
अष्टक » 8; अध्याय » 7; वर्ग » 22; मन्त्र » 5
अष्टक » 8; अध्याय » 7; वर्ग » 22; मन्त्र » 5
पदार्थः -
(दिद्यवः) द्योतमानास्त्रविशेषाः (स्वेदाः-इव) गात्रस्वेदबिन्दव इव (अभितः-विष्वक्-अव पतन्तु) शत्रूनभितो विकीर्णीभूय अवपतन्तु (दुर्मतिः) दुर्बुद्धिर्दुष्टः शत्रुः (दूर्वायाः-तन्तवः-इव-अस्मत्-वि-एतु) दूर्वाघासस्य तन्तव इवास्मत्तो विच्छिन्नो भवतु (देवी०) पूर्ववत् ॥५॥