ऋग्वेद - मण्डल 10/ सूक्त 134/ मन्त्र 6
ऋषिः - मान्धाता यौवनाश्वः
देवता - इन्द्र:
छन्दः - महापङ्क्ति
स्वरः - पञ्चमः
दी॒र्घं ह्य॑ङ्कु॒शं य॑था॒ शक्तिं॒ बिभ॑र्षि मन्तुमः । पूर्वे॑ण मघवन्प॒दाजो व॒यां यथा॑ यमो दे॒वी जनि॑त्र्यजीजनद्भ॒द्रा जनि॑त्र्यजीजनत् ॥
स्वर सहित पद पाठदी॒र्घम् । हि । अ॒ङ्कु॒शम् । य॒था॒ । शक्ति॑म् । बिभ॑र्षि । म॒न्तु॒ऽमः॒ । पूर्वे॑ण । म॒घ॒ऽव॒न् । प॒दा । अ॒जः । व॒याम् । यथा॑ । य॒मः॒ । दे॒वी । जनि॑त्री । अ॒जी॒ज॒न॒त् । भ॒द्रा । जनि॑त्री । अ॒जी॒ज॒न॒त् ॥
स्वर रहित मन्त्र
दीर्घं ह्यङ्कुशं यथा शक्तिं बिभर्षि मन्तुमः । पूर्वेण मघवन्पदाजो वयां यथा यमो देवी जनित्र्यजीजनद्भद्रा जनित्र्यजीजनत् ॥
स्वर रहित पद पाठदीर्घम् । हि । अङ्कुशम् । यथा । शक्तिम् । बिभर्षि । मन्तुऽमः । पूर्वेण । मघऽवन् । पदा । अजः । वयाम् । यथा । यमः । देवी । जनित्री । अजीजनत् । भद्रा । जनित्री । अजीजनत् ॥ १०.१३४.६
ऋग्वेद - मण्डल » 10; सूक्त » 134; मन्त्र » 6
अष्टक » 8; अध्याय » 7; वर्ग » 22; मन्त्र » 6
अष्टक » 8; अध्याय » 7; वर्ग » 22; मन्त्र » 6
पदार्थः -
(मन्तुमः) हे ज्ञानवन् ! मन्तुर्ज्ञानं तद्वन् “मतुवसो रु सम्बुद्धौ छन्दसि” [अष्टा० ८।३।१] इति नकारस्य रुत्वं (दीर्घम्-अङ्कुशं यथा) दीर्घमङ्कुशमिव (शक्तिं बिभर्षि) शक्तिं त्वं धारयसि, अतः (मघवन् पूर्वेण-पदा-अजः-यथा वयां यमः) हे धनवन् राजन् ! यथाऽजः पशुरग्रपादेन पद्भ्यां शाखां स्वाधीनं करोति तद्वत् त्वं-शत्रुं यमय स्वाधीनं कुरु (देवी०) पूर्ववत् ॥६॥