Loading...
ऋग्वेद मण्डल - 10 के सूक्त 134 के मन्त्र
मण्डल के आधार पर मन्त्र चुनें
अष्टक के आधार पर मन्त्र चुनें
  • ऋग्वेद का मुख्य पृष्ठ
  • ऋग्वेद - मण्डल 10/ सूक्त 134/ मन्त्र 7
    ऋषिः - गोधा देवता - इन्द्र: छन्दः - पङ्क्तिः स्वरः - पञ्चमः

    नकि॑र्देवा मिनीमसि॒ नकि॒रा यो॑पयामसि मन्त्र॒श्रुत्यं॑ चरामसि । प॒क्षेभि॑रपिक॒क्षेभि॒रत्रा॒भि सं र॑भामहे ॥

    स्वर सहित पद पाठ

    नकिः॑ । दे॒वाः॒ । मि॒नी॒म॒सि॒ । नकिः॑ । आ । यो॒प॒या॒म॒सि॒ । म॒न्त्र॒ऽश्रुत्य॑म् । च॒रा॒म॒सि॒ । प॒क्षेभिः॑ । अ॒पि॒ऽक॒क्षेभिः॑ । अत्र॑ । अ॒भि । सम् । र॒भा॒म॒हे॒ ॥


    स्वर रहित मन्त्र

    नकिर्देवा मिनीमसि नकिरा योपयामसि मन्त्रश्रुत्यं चरामसि । पक्षेभिरपिकक्षेभिरत्राभि सं रभामहे ॥

    स्वर रहित पद पाठ

    नकिः । देवाः । मिनीमसि । नकिः । आ । योपयामसि । मन्त्रऽश्रुत्यम् । चरामसि । पक्षेभिः । अपिऽकक्षेभिः । अत्र । अभि । सम् । रभामहे ॥ १०.१३४.७

    ऋग्वेद - मण्डल » 10; सूक्त » 134; मन्त्र » 7
    अष्टक » 8; अध्याय » 7; वर्ग » 22; मन्त्र » 7

    पदार्थः -
    (देवाः) हे विद्वांसः ! (नकिः-मिनीमसि) न हि वयं हिंस्मः (आ) अथ च ‘आकारः समुच्चयार्थः’ “एतस्मिन्नेवार्थे समुच्चये-आकारः” [निरु० १।५] (नकिः-योपयामसि) नैव धर्मकृत्यं लोपयामः (मन्त्रश्रुत्यं-चरामसि) मन्त्रैर्यत् खलु श्रुतं तदनुरूपं कर्माचरामः (पक्षेभिः-अपिकक्षेभिः) स्वसहयोगिभिः सह तथा कक्षगतैः पुत्रादिभिः सह (अत्र) अस्मिन् राष्ट्रे (अभि सं रभामहे) कर्त्तव्यसंरताः स्मः ॥७॥

    इस भाष्य को एडिट करें
    Top