ऋग्वेद - मण्डल 10/ सूक्त 146/ मन्त्र 3
ऋषिः - देवमुनिरैरम्मदः
देवता - अरण्यानी
छन्दः - निचृदनुष्टुप्
स्वरः - गान्धारः
उ॒त गाव॑ इवादन्त्यु॒त वेश्मे॑व दृश्यते । उ॒तो अ॑रण्या॒निः सा॒यं श॑क॒टीरि॑व सर्जति ॥
स्वर सहित पद पाठउ॒त । गावः॑ऽइव । अ॒द॒न्ति॒ । उ॒त । वेश्म॑ऽइव दृ॒श्य॒ते॒ । उ॒तो इति॑ । अ॒र॒ण्या॒निः । सा॒यम् । श॒क॒टीःऽइ॑व । स॒र्ज॒ति॒ ॥
स्वर रहित मन्त्र
उत गाव इवादन्त्युत वेश्मेव दृश्यते । उतो अरण्यानिः सायं शकटीरिव सर्जति ॥
स्वर रहित पद पाठउत । गावःऽइव । अदन्ति । उत । वेश्मऽइव दृश्यते । उतो इति । अरण्यानिः । सायम् । शकटीःऽइव । सर्जति ॥ १०.१४६.३
ऋग्वेद - मण्डल » 10; सूक्त » 146; मन्त्र » 3
अष्टक » 8; अध्याय » 8; वर्ग » 4; मन्त्र » 3
अष्टक » 8; अध्याय » 8; वर्ग » 4; मन्त्र » 3
पदार्थः -
(उत) अपि च (गावः-इव-अदन्ति) गाव इवारण्यपशवो गवयाः खलु घासादिकं भक्षयन्ति (उत) अपि च (वेश्म-इव दृश्यते) क्वचित् गृहमिव गुल्मादिवितानो दृश्यते (उत) अपि च (सायम्) सायंकाले (अरण्यानिः-शकटीः-इव सर्जति) वायुप्रचलनादरण्यानी शकटीर्यानानि विसृजति चालयति-इव दृश्यते ॥३॥