Loading...
ऋग्वेद मण्डल - 10 के सूक्त 146 के मन्त्र
मण्डल के आधार पर मन्त्र चुनें
अष्टक के आधार पर मन्त्र चुनें
  • ऋग्वेद का मुख्य पृष्ठ
  • ऋग्वेद - मण्डल 10/ सूक्त 146/ मन्त्र 4
    ऋषिः - देवमुनिरैरम्मदः देवता - अरण्यानी छन्दः - अनुष्टुप् स्वरः - गान्धारः

    गाम॒ङ्गैष आ ह्व॑यति॒ दार्व॒ङ्गैषो अपा॑वधीत् । वस॑न्नरण्या॒न्यां सा॒यमक्रु॑क्ष॒दिति॑ मन्यते ॥

    स्वर सहित पद पाठ

    गाम् । अ॒ङ्ग । ए॒षः । आ । ह्व॒य॒ति॒ । दारु॑ । अ॒ङ्ग । ए॒षः । अप॑ । अ॒व॒धी॒त् । वस॑न् । अ॒र॒ण्या॒न्याम् । सा॒यम् । अक्रु॑क्षत् । इति॑ । म॒न्य॒ते॒ ॥


    स्वर रहित मन्त्र

    गामङ्गैष आ ह्वयति दार्वङ्गैषो अपावधीत् । वसन्नरण्यान्यां सायमक्रुक्षदिति मन्यते ॥

    स्वर रहित पद पाठ

    गाम् । अङ्ग । एषः । आ । ह्वयति । दारु । अङ्ग । एषः । अप । अवधीत् । वसन् । अरण्यान्याम् । सायम् । अक्रुक्षत् । इति । मन्यते ॥ १०.१४६.४

    ऋग्वेद - मण्डल » 10; सूक्त » 146; मन्त्र » 4
    अष्टक » 8; अध्याय » 8; वर्ग » 4; मन्त्र » 4

    पदार्थः -
    (अङ्ग) पुनः (एषः-गाम्-आह्वयति) दिनेऽयं गोश्चारको गोपालो वा गां गाः-स्वकीया गाः-आह्वयति (अङ्ग) पुनश्च (एषः) अयं (दारु-अप अवधीत्) काष्ठाहारो दारु-काष्ठं छिनत्ति (सायम्) रात्रौ (अरण्यान्यां वसन्) अरण्यान्यां शयानः (कुक्षत्-इति मन्यते) क्रोशति-आह्वयति-परमात्मानं स्तौति गायति चेत्थमात्मानं धन्यं मन्यते ॥४॥

    इस भाष्य को एडिट करें
    Top