ऋग्वेद - मण्डल 10/ सूक्त 146/ मन्त्र 5
ऋषिः - देवमुनिरैरम्मदः
देवता - अरण्यानी
छन्दः - निचृदनुष्टुप्
स्वरः - गान्धारः
न वा अ॑रण्या॒निर्ह॑न्त्य॒न्यश्चेन्नाभि॒गच्छ॑ति । स्वा॒दोः फल॑स्य ज॒ग्ध्वाय॑ यथा॒कामं॒ नि प॑द्यते ॥
स्वर सहित पद पाठन । वै । अ॒र॒ण्या॒निः । ह॒न्ति॒ । अ॒न्यः । च॒ । इत् । न । अ॒भि॒ऽगच्छ॑ति । स्वा॒दोः । फल॑स्य । ज॒ग्ध्वाय॑ । य॒था॒ऽकाम॑म् । नि । प॒द्य॒ते॒ ॥
स्वर रहित मन्त्र
न वा अरण्यानिर्हन्त्यन्यश्चेन्नाभिगच्छति । स्वादोः फलस्य जग्ध्वाय यथाकामं नि पद्यते ॥
स्वर रहित पद पाठन । वै । अरण्यानिः । हन्ति । अन्यः । च । इत् । न । अभिऽगच्छति । स्वादोः । फलस्य । जग्ध्वाय । यथाऽकामम् । नि । पद्यते ॥ १०.१४६.५
ऋग्वेद - मण्डल » 10; सूक्त » 146; मन्त्र » 5
अष्टक » 8; अध्याय » 8; वर्ग » 4; मन्त्र » 5
अष्टक » 8; अध्याय » 8; वर्ग » 4; मन्त्र » 5
पदार्थः -
(अरण्यानिः-न वै हन्ति) अरण्यानी न च कमपि हन्ति (अन्यः-चेत्-न अभिगच्छति) यदि कश्चिदन्यो नाक्रामेत् (स्वादुफलं जग्ध्वाय) स्वादु फलं भुक्त्वा (यथा कामं नि पद्यते) यथेष्टं स्वगृहं नियतं प्राप्नोति ॥५॥