ऋग्वेद - मण्डल 10/ सूक्त 146/ मन्त्र 6
आञ्ज॑नगन्धिं सुर॒भिं ब॑ह्व॒न्नामकृ॑षीवलाम् । प्राहं मृ॒गाणां॑ मा॒तर॑मरण्या॒निम॑शंसिषम् ॥
स्वर सहित पद पाठआञ्ज॑नऽगन्धिम् । सु॒र॒भिम् । ब॒हु॒ऽअ॒न्नाम् । अकृ॑षिऽवलाम् । प्र । अ॒हम् । मृ॒गाणा॑म् । मा॒तर॑म् । अ॒र॒ण्या॒निम् । अ॒शं॒सि॒ष॒म् ॥
स्वर रहित मन्त्र
आञ्जनगन्धिं सुरभिं बह्वन्नामकृषीवलाम् । प्राहं मृगाणां मातरमरण्यानिमशंसिषम् ॥
स्वर रहित पद पाठआञ्जनऽगन्धिम् । सुरभिम् । बहुऽअन्नाम् । अकृषिऽवलाम् । प्र । अहम् । मृगाणाम् । मातरम् । अरण्यानिम् । अशंसिषम् ॥ १०.१४६.६
ऋग्वेद - मण्डल » 10; सूक्त » 146; मन्त्र » 6
अष्टक » 8; अध्याय » 8; वर्ग » 4; मन्त्र » 6
अष्टक » 8; अध्याय » 8; वर्ग » 4; मन्त्र » 6
पदार्थः -
(आञ्जनगन्धिम्) रसाञ्जनगन्धस्येव गन्धोऽस्या इत्याञ्जनगन्धिस्तां (सुरभिम्) सुगन्धोपेतां (अकृषीवलां बह्वन्नाम्) कृषकैरनपेक्षितां बहुविधान्नयुक्तां (मृगाणां मातरम्) वन्यपशूनां मातरम् (अरण्यानिम्-अशंसिषम्) अरण्यानीं प्रशंसामि ॥७॥