Loading...
ऋग्वेद मण्डल - 10 के सूक्त 147 के मन्त्र
मण्डल के आधार पर मन्त्र चुनें
अष्टक के आधार पर मन्त्र चुनें
  • ऋग्वेद का मुख्य पृष्ठ
  • ऋग्वेद - मण्डल 10/ सूक्त 147/ मन्त्र 1
    ऋषिः - सुवेदाः शैरीषिः देवता - इन्द्र: छन्दः - विराड्जगती स्वरः - निषादः

    श्रत्ते॑ दधामि प्रथ॒माय॑ म॒न्यवेऽह॒न्यद्वृ॒त्रं नर्यं॑ वि॒वेर॒पः । उ॒भे यत्त्वा॒ भव॑तो॒ रोद॑सी॒ अनु॒ रेज॑ते॒ शुष्मा॑त्पृथि॒वी चि॑दद्रिवः ॥

    स्वर सहित पद पाठ

    श्रत् । ते॒ । द॒धा॒मि॒ । प्र॒थ॒माय॑ । म॒न्यवे॑ । अह॑न् । यत् । वृ॒त्रम् । नर्य॑म् । वि॒वेः । अ॒पः । उ॒भे इति॑ । यत् । त्वा॒ । भव॑तः । रोद॑सी॒ इति॑ । अनु॑ । रेज॑ते । शुष्मा॑त् । पृ॒थि॒वी । चि॒त् । अ॒द्रि॒ऽवः॒ ॥


    स्वर रहित मन्त्र

    श्रत्ते दधामि प्रथमाय मन्यवेऽहन्यद्वृत्रं नर्यं विवेरपः । उभे यत्त्वा भवतो रोदसी अनु रेजते शुष्मात्पृथिवी चिदद्रिवः ॥

    स्वर रहित पद पाठ

    श्रत् । ते । दधामि । प्रथमाय । मन्यवे । अहन् । यत् । वृत्रम् । नर्यम् । विवेः । अपः । उभे इति । यत् । त्वा । भवतः । रोदसी इति । अनु । रेजते । शुष्मात् । पृथिवी । चित् । अद्रिऽवः ॥ १०.१४७.१

    ऋग्वेद - मण्डल » 10; सूक्त » 147; मन्त्र » 1
    अष्टक » 8; अध्याय » 8; वर्ग » 5; मन्त्र » 1

    पदार्थः -
    (अद्रिवः) हे अद्रिवन् ! आदारण-बलवन् ! ‘छान्दसं रुत्वम्’ “अद्रिवः-अद्रिवन्-अद्रिरादृणात्येतेन” [निरु० ४।४] परमात्मन् ! (ते प्रथमाय मन्यवे) तव परमाय “प्रथमं मंसीय-परमं मंसीय” [निरु० ३।८] वधसाधनाय “मन्युर्मन्यतेर्वधकर्मणो वा” [निरु० १०।२९] (श्रत्-दधामि) सत्यं धारयामि-आदरं करोमि “श्रत् सत्यनाम” [निघ० ३।१०] (यत्) यतः (वृत्रं नर्यम्-अहम्) आवरकं मेघम् “वृत्रः-मेघनाम” [निघ० १।१०] नरहितकरं हन्ति (अपः-विवेः) जलानि प्रत्यागमयसि-प्रवाहयसि (यत् त्वा-अनु-उभे रोदसी भवतः) यत एवं त्वामनु-त्वदधीने द्वे द्यावापृथिव्यौ भवतः (शुष्मात्) तव बलात् “शुष्मं बलनाम” [निघ० २।९] (पृथिवी चित्-रेजते) अन्तरिक्षम् “पृथिवी अन्तरिक्षनाम” [निघ० १।३] कम्पते चिदपि, उभे रोदसी चिदपि कम्पेते ॥१॥

    इस भाष्य को एडिट करें
    Top