ऋग्वेद - मण्डल 10/ सूक्त 147/ मन्त्र 2
ऋषिः - सुवेदाः शैरीषिः
देवता - इन्द्र:
छन्दः - भुरिगार्चीजगती
स्वरः - निषादः
त्वं मा॒याभि॑रनवद्य मा॒यिनं॑ श्रवस्य॒ता मन॑सा वृ॒त्रम॑र्दयः । त्वामिन्नरो॑ वृणते॒ गवि॑ष्टिषु॒ त्वां विश्वा॑सु॒ हव्या॒स्विष्टि॑षु ॥
स्वर सहित पद पाठत्वम् । मा॒याभिः॑ । अ॒न॒व॒द्य॒ । मा॒यिन॑म् । श्र॒व॒स्य॒ता । मन॑सा । वृ॒त्रम् । अ॒र्द॒य॒ । त्वाम् । इत् । नरः॑ । वृ॒ण॒ते॒ । गवि॑ष्टिषु । त्वाम् । विश्वा॑सु । हव्या॑सु । इष्टि॑षु ॥
स्वर रहित मन्त्र
त्वं मायाभिरनवद्य मायिनं श्रवस्यता मनसा वृत्रमर्दयः । त्वामिन्नरो वृणते गविष्टिषु त्वां विश्वासु हव्यास्विष्टिषु ॥
स्वर रहित पद पाठत्वम् । मायाभिः । अनवद्य । मायिनम् । श्रवस्यता । मनसा । वृत्रम् । अर्दय । त्वाम् । इत् । नरः । वृणते । गविष्टिषु । त्वाम् । विश्वासु । हव्यासु । इष्टिषु ॥ १०.१४७.२
ऋग्वेद - मण्डल » 10; सूक्त » 147; मन्त्र » 2
अष्टक » 8; अध्याय » 8; वर्ग » 5; मन्त्र » 2
अष्टक » 8; अध्याय » 8; वर्ग » 5; मन्त्र » 2
पदार्थः -
(अनवद्य त्वम्) हे अनिन्दनीय परमात्मन् ! त्वं (मायिनं वृत्रम्) माया-अन्धकारः-सूर्यप्रकाशाच्छादकं कर्म वा विद्यते यस्य तं मायिनं मेघम् “मायाः-अन्धकाराद्या इव” [ऋ० १।३२।४ दयानन्दः] “मायिनाम्-येषां....सूर्यप्रकाशाच्छादकं बहुविधं कर्म विद्यते तेषाम्” [ऋ० १।३२।४ दयानन्दः] (श्रवस्यता मनसा) प्राणिभ्योऽन्नमिच्छता मनसा “श्रवः-अन्ननाम” [निघ० २।७] इच्छार्थे क्यच् ‘छान्दसः परेच्छायां च’ (मायाभिः) प्रज्ञा-प्रक्रियाविद्युद्भिः (अर्दयः) अर्दयसि नाशयसि “अर्द हिंसायाम्” [चुरादि०] (त्वाम्-इत्) त्वामेव (नरः) मनुष्याः (गविष्टिषु) सुखविशेषेच्छाप्रसङ्गेषु “गविष्टौ गोः सुखविशेषस्येष्टाविच्छायां सत्याम्” [यजु० ३४।२३ दयानन्दः] त्वां विश्वासु (हव्यासु-इष्टिषु) त्वां सर्वासु होतव्यासु यजनक्रियासु (वृणते) सम्भजन्ते ॥२॥