ऋग्वेद - मण्डल 10/ सूक्त 147/ मन्त्र 3
ऐषु॑ चाकन्धि पुरुहूत सू॒रिषु॑ वृ॒धासो॒ ये म॑घवन्नान॒शुर्म॒घम् । अर्च॑न्ति तो॒के तन॑ये॒ परि॑ष्टिषु मे॒धसा॑ता वा॒जिन॒मह्र॑ये॒ धने॑ ॥
स्वर सहित पद पाठआ । ए॒षु॒ । चा॒क॒न्धि॒ । पु॒रु॒ऽहू॒त॒ । सू॒रिषु॑ । वृ॒धासः॑ । ये । म॒घ॒ऽव॒न् । आ॒न॒शुः । म॒घम् । अर्च॑न्ति । तो॒के । तन॑ये । परि॑ष्टिषु । मे॒धऽसा॑ता । वा॒जिन॑म् । अह्व॑ये । धने॑ ॥
स्वर रहित मन्त्र
ऐषु चाकन्धि पुरुहूत सूरिषु वृधासो ये मघवन्नानशुर्मघम् । अर्चन्ति तोके तनये परिष्टिषु मेधसाता वाजिनमह्रये धने ॥
स्वर रहित पद पाठआ । एषु । चाकन्धि । पुरुऽहूत । सूरिषु । वृधासः । ये । मघऽवन् । आनशुः । मघम् । अर्चन्ति । तोके । तनये । परिष्टिषु । मेधऽसाता । वाजिनम् । अह्वये । धने ॥ १०.१४७.३
ऋग्वेद - मण्डल » 10; सूक्त » 147; मन्त्र » 3
अष्टक » 8; अध्याय » 8; वर्ग » 5; मन्त्र » 3
अष्टक » 8; अध्याय » 8; वर्ग » 5; मन्त्र » 3
पदार्थः -
(पुरुहूत मघवन्) हे बहुप्रकारैर्ह्वातव्य ! ऐश्वर्यवन् परमात्मन् ! (एषु सूरिषु-आ चाकन्धि) एतेषु स्तोतृषु “सूरिः स्तोतृनाम” [निघ० ३।१६] त्वं समन्ताद्भृशं प्रकाशितो भवसि, ‘लडर्थे लोट्-व्यत्ययेन’ “कनी दीप्तिकान्त्योः” [भ्वादि०] ततो यङ्लुङन्तप्रयोगः तस्मात् (ये वृधासः-मघम्-आनशुः) ये ते-उन्नताः सन्तो महनीयं धनं प्राप्नुवन्ति, अथ च (तोके तनये) पुत्रे पौत्रे पुत्रपौत्रनिमित्तं (परिष्टिषु) परितः सर्वतः-इष्टिषु यज्ञेषु सङ्गमनेषु “परिष्टौ सर्वतः सङ्गन्तव्यायाम्” [ऋ० ६।१९।७ दयानन्दः] ‘शकन्ध्वादिषु पररूपं वक्तव्यम्, पररूपादेशः’ (मेधसाता) सङ्गमनीयानां लाभो दानं वा यस्मिन् प्रसङ्गे “तत्र सप्तमीविभक्तेराकारादेशः” (अह्रये धने) निःसङ्कोचनीयधननिमित्तं (वाजिनम्-अर्चन्ति) त्वां बलवन्तं स्तुवन्ति ॥३॥